________________
कारविकरणम्
अन्तरङ्गं च यत्र पूर्व क्रियाप्रवृत्तिस्तत् , प्रथमोपस्थितत्वात् । न चैवं तस्य मुख्यत्वमपि शक्यम् । यदर्थ क्रियाप्रवृत्तिस्तदेव हि मुख्यं फलमिति तदाश्रयस्यैव मुख्यत्वम् । एवञ्च दुहादिनीवह्याद्योरादिपदं प्रकारवाच्येवाऽवगन्तव्यम् । व्यवस्थावाचित्वे २ पचादेनीवह्याद्यन्तर्गततया 'तण्डुला ओदनं पच्यन्त' इत्यादिवाक्यानामसाधुत्वापत्तेः । नात्र तण्डुला मुख्यं कर्म, किन्त्वन्तरङ्गमित्यन्तरङ्गत्वमेवोक्तत्वे प्रयोजकमित्यवधेयम् । तथा च नीवह्यादौ भारादिर्दुहादौ च दुग्धादि मुख्यं कर्म । अन्तरङ्गं च नीवह्यादौ भारादिरेव, दुहादौ तु गवादिः, प्राथम्येन तत्रैव प्रवृत्तरित्यन्तरङ्गत्वात्तत्रैव कर्मणि प्रत्यय इति नीवह्यादौ मुख्यं दुहादौ च गौणं कर्मोक्तं भवति कर्मणि प्रत्यये सति । यदुक्तम्
" गुणकर्मणि ला (त्या) दिविधिः पूर्व गुणकर्मणा भवति योगः । मुख्यं कर्म प्रेप्सु यस्माद्रव्येव यतते प्राक् ॥ १॥ तम्माच्छुद्धस्य दुहेर्भवति गवा पूर्वमेव सम्बन्धः । गोदुहिना पयसस्तु प्राक्तस्माल्ला (त्या) दयस्तम्मिलि" ति ॥२॥२६
उक्तप्रकारं च गौणं मुख्यं च कर्मद्वयं याशीषु कियासु सम्भवति, तदर्थान् धातून परिगणयन्नाह-----
१ दुहियाचिपच्छिरुधिमिक्षिबगशासिचिगर्थकाः । नीवहिपचिजिग्रहिमुषिकृषिमन्थिकहभिःसहिताः ॥२७॥
१ अनुपदमेव वक्ष्यमाणायां 'दुहियाचिप्रज्छी' त्यादिकारिकायां पचादेनविद्यादी पारादिति बोध्यम ।
२ 'दुहियाचिपच्किषिभिक्षिवजिशासिचित्रर्थकाः । नीवहिमजि जमिन