________________
कारकविवरणम्
नोदनं निवर्तयतीत्यर्थाऽवगमात् । विक्लेदनमात्रविवक्षया तण्डुलं पच. तीत्यपि, सम्बन्धसामान्यविवक्षायां च ' तण्डुलानामोदनं पचती ' त्यपि । दुहेश्च प्रेरणाजनितनिःसरणमर्थः । तत्र गोः प्रेरणाश्रयत्वाद् दुग्धस्य च निःसरणाश्रयत्वात्कर्मत्वम् । प्रेरणामात्रविवक्षायां गां दोग्धीति, निःसरणमात्रविवक्षायां पयो दोग्धीत्यादिप्रकारेण प्रयोगाः । एवमन्यत्राऽपि स्वयमूहनीयम् ॥ २५ ॥
___ नन्वेवं द्विकर्मकेषु धातुषु कर्मणि प्रत्यये द्वयोरेवोक्तत्वं न सम्भवति, एकस्य शब्दस्य युगपद् गौणमुख्यनानार्थाऽभिधानाऽसमर्थत्वात् , सकृदुच्चरितस्य शब्दस्य सकृदर्थप्रत्यायननियमात् । एवञ्च कस्याऽप्येकस्यैवाऽभिधानं सम्भवति । ततश्च कस्याऽभिधानमित्यनिर्णये व्यवस्थार्थमाह
भारादि नीयमानं नीवह्यादेः प्रधानकं कर्म । तत्तव्यादावुक्तं नेयो ग्रामं यथा भारः ॥ २६ ॥
भारादीति । नीयमानं भारादि नीवह्यादेः प्रधानकं कर्म यत् , तत्तव्यादावुक्तम् , यथा नेयो ग्राम भार इत्यन्वयः । यत्तदोनित्यसम्बन्धात्तच्छब्दबलाद्यदिति लभ्यते । तव्यादाविति । आदिना क्यक्तादयः । उपलक्षणत्वात्कर्मणि प्रत्यये इति यावत् । नेय इति । अत्र भाररूपकर्मण उक्ततया प्रथमा । नीवह्यादेः प्रधानकं कर्मोक्तमित्युक्त्या परिशेषाद् दुहादे लॊणं कर्मोक्तं भवतीति लभ्यते। अन्यथा दुहादेरित्येव वदेदिति बोध्यम् ।
इदमत्र द्रष्टव्यम्-यदन्तरङ्गं कर्म तदेवोक्तं भवति प्रत्ययेन ।