________________
कारकविवरणम्
प्रभृतेरुपयोगो न स्यान्न क्रियाऽऽरभ्यतेति क्रियया विशेषेणाऽऽप्यत्वादेव मुख्यं कर्मेति भावः । निमित्तमिति । अन्यथाऽसम्प्राप्ते र्दुग्धाबर्थमुपादीयमानं क्रियाव्याप्यत्वेन विवक्षितमित्यर्थः ।
... यदा तु दुग्धाद्यर्थप्रवृत्तिरविवक्षिता, गवादेरेव च क्रियाच्याप्यत्वविवक्षा भवति, तदा मुख्यस्याऽसन्निधानाद्गवादेरेव मुख्यत्वमिति तस्यैव क्रियाव्याप्तिर्गम्यते । तथा च- 'गां दोग्धि, आश्चर्यो गवां दोह' इत्याद्युदाहरणानि । यदा तु गवादेरवधित्वादिविवक्षा, तदा न तस्याऽकथितकर्मत्वम् , किन्त्वपादानत्वाद्येव । तथा च-'गोः पयो दोग्धी' त्यादयोऽपि प्रयोगाः ।
ननु दुग्धाद्यर्थ गवाद्युपादानवत् 'अजां ग्रामं नयति, भृत्यं भारं वहती ' त्यादौ नाऽजाभारादिनिमित्तं ग्रामभृत्यादीति तत्र गौण. लक्षणस्याऽव्याप्तिरिति चेन्न । नहि यन्निमित्तमेव तदेव गौणम् , किन्तु मुख्यादन्यक्रियाव्याप्यत्वेन विवक्षितमत्र गौणम् , तादृशं प्रायशो निमित्तमिति निमित्तमित्युक्तम् । अजाग्रामादीनां च मुख्यगुणीभूतक्रियाव्याप्यत्वान्मुख्यगौणते बोव्ये। तथाहि-नयत्यादौ प्राप्त्यादिक्रियाविशिष्टा प्राप्त्यादिक्रिया वाच्या । तत्र गुणीभूताऽजाप्रभृतिप्राप्त्यादिक्रियाव्याप्यतया ग्रामादीनां कर्मणां गौणता बोध्या । १ अत एवाऽजादिकस्य स्वस्य च देवदत्तादेामादिप्राप्तिः प्रतीयते । यथा पच्धातो विक्लेदनविशिष्टनिर्वर्तनमर्थः । तण्डुलानोदनं पचतीत्यत्र तण्डुलान् विक्लेदय
१ नयत्यादेः प्राप्त्युपसर्जनप्रातिक्रियाद्यर्थत्व देवेत्यर्थः । प्राप्तिक्रियादिमात्रार्थकत्वे तु न देवत्तादेः प्राप्तिः प्रतीयेताऽशाब्दत्वादित्याशयः । .