________________
कारकविवरणम्
गौणमित्यर्थः । उदाहरणमाह-असाविति । अत्र गवा पयस्त्याजयतीत्यर्थावगमाद् गोः कर्तृकर्मत्वमेवेति चेन्न । यत्र स्वयं व्यापारमाश्रितः कती प्रयुज्यते देवदत्तं ग्रामं गमयतीत्यादौ, तत्रैव तत् । द्विकर्मकधातुषु तु स्वयं निष्क्रियस्याऽपि गवादे दोहादिक्रियायां विनियोग इति स्वातन्त्र्याऽभावान्न कर्तृकर्मता गवादेरित्यकथितमेवैतत् । न चैवमपि गो: पयोविभागादपादानत्वं स्पष्टं प्रतीयत इति कथं गवादेः कर्मत्वमिति वाच्यम् । गवादिषु प्रतीयमानस्याऽप्यपादानत्वादेरविवक्षणानिमित्तत्वमात्रेण क्रियाव्याप्यत्वविवक्षणाच्च कर्मत्वसद्भावात् ।
ननु स्वयं निष्क्रियस्येत्ययुक्तम् , क्रियासिद्धावाश्रितव्यापारस्यैव कारकत्वादिति चेन्न । गोः स्थित्यूधःसमाकर्षणादिक्रियाश्रयतया दोहादिक्रियासिद्धौ सक्रियत्वात्प्रकृतधातूपात्तक्रियानाश्रयतयैव तत्र निष्क्रियत्वोक्तेरित्यवधेयम् ॥ २४ ॥ ..... तत्र द्विकर्मकेषु द्वयोः कर्मणो ौणमुख्यव्यवस्थामाह----
यच्चोपयुज्यमानं पयःप्रभृत्यत्र तद्भवेन्मुख्यम् । १ यन्निमित्तमपरं तद् गौणं गोप्रभृति विज्ञेयम् ॥२५॥
यच्चेति । चो भिन्नक्रमः । तथा च--अत्र च यदुपयुज्यमानं प्रयः प्रभृति, तन्मुख्यं भवेत् , यदपरं निमित्तं तद् गोप्रभृति गौणं विज्ञेयमित्यन्वयः । अत्रेति । द्वयोः कर्मणोरित्यर्थः । उपयुज्यमानमिति । यदर्थ क्रियाऽऽरभ्यते तदित्यर्थः । यदि हि पयः
१ 'यत्तन्निमिमित्तमपरं तद्गौणं गोप्रभृत्येवमि' ति क. पाठः । 'यन्निमित्तमपरं तद्गौणं गोप्रभृत्येवमि' ति ग• पाठः ।