SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् दिना । अत्राऽहिः प्राप्यमनिष्टं कर्म । कण्टकाश्च विकार्यमनिष्ट कर्म । अन्ध इति मृदनातीत्यत्राऽपि सम्बध्यते ॥ २२ ॥ इष्टानिष्टभिन्नमाह --- यत्र नेच्छा न च द्वेषस्तत्स्यादनुभयं यथा । ग्रामं गच्छंस्तरोर्मूलान्युपसर्पति मार्गगः ॥ २३ ॥ यत्रेति । यन्नेष्टं न चाऽनिट तदित्यर्थः । ग्राममिति । अत्र हि तरोर्मूलानि नेष्टानि, पूर्वमनभिसंहितत्वात् । न चाऽनिष्टान्यप्रतिकूलत्वात् । किन्तु गमनक्रियायामारभ्यमाणाया' मन्तरालस्थत्वेन २ नान्तरीयकतयोपसुप्यमाणानीत्येतादृशं कमाऽनुभयम् ॥ २३ ॥ अकथित कमर्माह-- दुहादीनां प्रयोगे च द्वितीयं कर्म यत्किल । भवेदकथितं तच्च यथाऽसौ दोग्धि गां पयः ॥२४॥ दुहादीनामिति । दुहादयश्चाऽनुपदमेव वक्ष्यन्ते । किलेति पादपूर्ती वाक्यालङ्कारे वा । अपादानादिविशेषैरविवक्षितं क्रियायां निमित्तत्वमात्रेण ३ तद्वयाप्यत्वेन विवक्षितमिति तद् द्वितीयं कर्म । तच्च दुहादीनां प्रयोग एवेत्यत एव दुहादीनां प्रयोगे द्वितीयं कर्मेत्युक्तमिति बोव्यम् । अन्यत्र तथाऽसम्भवाद् दुहादीनामिति । अकथितमिति । १ मागेमध्यवर्तितयेत्यर्थः । २ गमनस्य मूलोपसर्पणाऽविनाभावितयेत्यर्थः । ३ व्याप्यत्वेनाऽविवक्षायां त्वपादानादिविशेषाविवक्षगे सम्बन्धस्यैव प्रादु. भर्भाव इत्यतस्तथात्वेन विवक्षाऽकथितकर्मत्वेऽपेक्षितेति बोध्यम् ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy