________________
१८
कारक विवरणम्
प्राप्यमाह
क्रियाकृतो विशेषस्तु यत्र नास्ति कदाचन ॥ २० ॥ तत्प्राप्यं स्याद्यथाऽऽदित्यं पश्यत्य मललोचनः ।
1
क्रियाकृत इति । क्रियया जनित इत्यर्थः । विशेष इति । निर्वृत्तिविकारलक्षणः, कदाचनेत्यनुवादमात्रम् । कदापि क्रियाकृतविशेषसत्त्वे प्राप्यत्वव्याघाताऽवश्यम्भावादिति बोध्यम् । उदाहरणमाह-यथेति । अत्र दृशिक्रियाव्याप्यस्य सूर्यस्य न निर्वृत्तिविकाररूपो विशेष इति स प्राप्यं कर्म ।
इष्टमाह
यदीप्सितं तदिष्टं स्याच्छिशुरत्ति यथौदनम् ॥ २१ ॥ ईप्सितमिति । यदवाप्तुं क्रियाऽऽरभ्यते तदित्यर्थः । पूर्व
मभिसंहितमिति यावत् । उदाहरणमाह - शिशुरिति । बुभुक्षादिनिवृत्तये हि शिशोरोदनं पूर्वमभिसंहितमिति तदिष्टं विकार्य कर्म ||२१|| अनिष्टमाह-
द्विष्टं यत्प्राप्यते तत्स्यादनिष्टं भुजगादिकम् । यथाsहिं लङ्घयत्यन्धोऽथवा मृद्नाति कण्टकान् ||२२|| द्विष्टमिति । यद् भुजगादिकं द्विष्टं प्राप्यते, तदनिष्टं स्यादित्यन्वयः । द्विष्टं प्रतिकूलम्, तच्च भुजगादिकम् तज्जन्यदुःखे नेपात् फले द्वेषाद्धयुपाये द्वेषः । प्राप्यते इति । क्रियया व्याप्यत इत्यर्थः । नतु द्विष्टं प्राप्यं भुजगादिकमनिष्टमित्यर्थः । विकादेरप्यनिष्टस्य सम्भवादिति न विस्मर्तव्यम् । उदाहरणमाह-यथेत्या
"