________________
कारक विवरणम्
जायतामित्युभयमुक्तमिति गृहाण | उदाहरणमाह - एष इति । असन्तं कटं क्रियया निर्वर्त्तयतीत्यसन्नेव कटो जायत इति स निर्वत्य कर्म । सूते इति । गर्भस्थं सुतं जन्मना प्रकाशयतीति स जन्मता प्रकाशते इति सुतोऽपि निर्वर्त्य कर्म ॥ १८ ॥
विकार्यमाह -
१
सतो गुणान्तराssधानात्प्रकृत्युच् छेदतोऽपि वा । २ जायते विक्रिया यस्य तद्विकार्य विदुर्बुधाः ॥ १९ ॥ गुणेति । अत्र गुणपदेनोपाधिमात्रस्य ग्रहणम्, नतु परिभाषितस्य गुणस्यैवेति बोध्यम् । विक्रियेति । अवस्थान्तरमित्यर्थः । उत्तरकालमिति शेषः । तथाचोक्तं बृहन्न्यासे - " यल्लब्धसत्ताकं सद्त्तरमवस्थान्तरं नीयते तद्विकार्यमित्यर्थ " इति ॥ १९ ॥
१७
उदाहरणमाह
कुण्डलीकुरुते ३ स्वर्ण काष्ठं दहति पावकः । स्वर्णमिति । अत्र हि कुण्डलाकाररूपगुणान्तराधानात्स्वर्ण
मवस्थान्तरं प्रतिपद्यते, काष्ठं च प्रकृत्युच्छेदतो भस्मरूपमेवस्थान्तरं प्रतिपद्यत इति क्रमशो द्वयं विकार्यं कर्म ॥
- १ च' इति क० ग० पाठः ।
6
"
२
प्रपद्यते यद्विकृत्यमिति क० ग० पाठः । स स्वपार्थकत्वादुपे क्षितः । विकृतिम पाठश्चेत्स्यात्सङ्गच्छेताऽपीति बोध्यम् ।
३ ' हेम' इति क० पादः ।