________________
२४
कारकविवरणम्
चिगर्थका इति । द्विकर्मका भवन्तीति शेषः । अर्थवशाद्धि द्विकर्मकता । तथाऽर्थाऽविवक्षणे तु 'गां दोग्धि, पयो दोग्धि, अजां नयति, भृत्वं नयती' त्यादय एव प्रयोगा भवन्तीत्युक्तमेव । एवञ्च दुहादिमीवह्याद्यर्थका धातवो द्विकर्मका भवन्तीत्यर्थः । परिचयार्थ तेषामुदाहरणान्युच्यन्ते :
... 'मां पयो दोग्धि, स्रावयति वा । गौः पयो दुह्यते। अविनीतं विनयं याचते, मृगयते, प्रार्थयते । अविनीतो विनयं याच्यते । माणवकं पन्थानं पृच्छति, चोदयति, जिज्ञासते, अनुयुनक्ति, ज्ञीप्सति वा । माणवकः पन्थानं पृच्छ्यते । व्रज गामवरुणद्धि, आवृणोति वा। व्रजः गामवरुध्यते । पौरवं गां भिक्षते, याचते, मृगयते, प्रार्थयते, नाथते वा । पोरवो गां भिक्ष्यते । शिष्यं धर्म ब्रते, भाषते, वक्ति वा । शिष्यो धर्ममुच्यते । शिष्यं धर्ममनुशास्ति, उपदिशति वा । शिष्यो धर्ममनुशिष्यते । वृक्षं फलान्यवचिनोति, सङ्ग्रह्णाति वा । वृक्षः फलान्यवचीयते । ग्राममजां नयति, गृह्णाति, वहति, हरति वा । ग्राममजा नीयते । भृत्यं भारं वहति, भृत्यं भार
दण्डिमोदिकर्षिमन्थिहन्मुखाः' इति क. पाठः । 'दुहियाचिपच्छिरुधिभिक्षिबगश सिचिअर्थकाः । .. नीवहिपचिजिदण्डिमोदिक घिमन्थिहृन्मुखाः" इति ग. पाठः । स च मोदेरकर्मकत्वाइण्डेर्जयतिनैव सङ्ग्रहाद्भजे:कषेश्च द्विकर्मकत्वाऽऽभावापेक्षितः । न च नीवह्योरुभयोरुपादानं निष्प्रयोजनम् , नयतिनैव लिः, उभयोः समानार्थत्वादिति वाच्यम् । वहेरत्रोद्धरणोपसर्जनप्राप्त्यर्थत्वाद समानार्थत्वाभावात् । प्राप्त्युपसर्जनप्राप्त्यर्थत्वं यदा तदा 'ग्राममजां वहती ' त्युदाहृतमिति बोध्यम् ।