________________
१४
कारकविवरणम्
चेतन इति । चेतनो यथेत्यन्वयः । जनकमिति । अत्र हि जनकहर्षे पुत्रोऽनुकूलस्तादृशचेष्टादिभिरिति पुत्रे प्रेरकत्वमारोप्यते । . न तु स प्रेषकोऽध्येषको वा । कारीष इति। कारीषोऽग्निहि द्विजा
ध्ययने प्रकाशदानादिनाऽनुकूलो नतु प्रेरक इति तत्र प्रयोजकत्वमुप-- चर्यते । करीषं शुष्कगोमयम् , तत्र भवः कारीषः ॥ १३ ॥
सम्प्रति कर्मकतारमाह- .. स्वव्यापारं यदा कता कर्मण्यारोपयेत्तदा । । स्यात्कर्मकर्ता पच्यन्ते शालयः स्वयमेव तत् ॥ १४ ॥
स्वेति । यदा कती स्वव्यापारं कर्मण्यारोपयेत्तदा तत्कर्मकता स्यात् , शालयः स्वयमेव पच्यन्ते इत्यन्वयः । स्वव्यापारमिति । कर्तृव्यापारमित्यर्थः । कर्तति । १ उपलक्षणत्वात्प्रयोक्तेत्यर्थः । तेन देवदत्ते पचमाने शालयः स्वयमेव पच्यन्त इति यज्ञदत्तस्याऽपि कर्मकर्तरि प्रयोग उपपद्यत इति बोध्यम् । एवंच सौकातिशयादिना यत्र कर्मणि कर्तृत्वविवक्षा स कर्मकर्तेति प्रतिपत्तव्यम् । कर्तृत्वेन विवक्षा च यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते तत्रैव, निवर्ये विकार्ये च कर्मणीति यावत् । तेन घटः क्रियते स्वयमेवेतिवद् घटो दृश्यते स्वयमेवेत्यादिकं न भवति । यदुक्तम्
“निर्वत्यै च विकार्ये च कर्मवद्भाव इष्यते । नतु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः ॥ १ ॥ १ कर्मकर्तरि वाक्यप्रयोग यः कर्तुमिच्छति स प्रयोक्तेह बोध्यो नतु प्रेरकरूपः प्रयोक्ता । अन्यथा • ण्यन्तस्थल एव कर्मकर्तरि प्रयोगः स्यात् । न च तथेति ध्येयम् ।