________________
कारकविवरणम्
इति । एवञ्च तत्र व्यापाराऽविवक्षणाद् घटः पश्यतीत्यादिरूपमेव वाक्यम् । घटः स्वयं दर्शनाश्रयो भवतीत्यादिरूपेण चार्थ इत्यवधेयम् । पच्यन्ते इत्याद्युदाहरणम् । अत्र सौकयाऽतिशयाच्छालय एव कर्तत्वेन विवक्षिताः । स्वयमेवेत्यनुवादमात्रम् । पच्यन्ते शालय इत्येतावतैव तदर्थावगतेः, कर्मणि प्रयोगभ्रमवारणार्थ वा तत् ॥ १४ ॥
अनुक्ते कर्तरि प्रयोगप्रकारमाह१ तथाऽनुक्तत्वभेदोऽपि प्रस्तावादिह कथ्यते । यथा सरस्वती देवी छात्रवृन्देन वन्द्यते ॥१५॥
अनुक्तेत्यादि । अनुक्तत्वेन यः कर्तृभेदः, सोऽपि, प्रस्तावाद्-अवसरसङ्गतेरित्यर्थः । यथेत्यादि । वन्द्यते इति कर्मणि प्रयोगात्कर्तुरनुक्तत्वेन छात्रवृन्देनेति तृतीयान्तम् । अनुक्तकर्तरि तृतीयाऽनुशासनात् । सरस्वतीति कर्मेत्युक्तेषु प्रथमैवेत्युक्तेः प्रथमान्तम् । अनुक्तेभ्य एव कारकेभ्यो द्वितीयादीनामनुशासनादिति बोध्यम् । भावादी कृत्प्रत्यये तु गौणात्कर्तुः षष्ठ्यपि, यथा तस्य कर्त्तव्यम्, आचार्यस्याऽनुशासनमित्यादावित्यपि बोध्यमिति ॥ १५ ॥
॥ अथ कर्मकारकविवरणम् ॥ तत्रादौ कर्मणो लक्षणमाहयत्क्रियते तत्कर्म स्याइँदैस्त्वेतदनेकधा । निर्वय॑ च विकार्य च प्राप्यं च त्रैधमिष्यते ॥१६॥
१ 'नुकूल' इति क० पाठः । स च लेखकादिप्रमादादेव ।