________________
कारकविवरणम्
सत्कारपूर्वकं यस्तु नियुङ्क्तेऽध्येषकः स्मृतः । नरः श्रद्धापरः कोऽपि गुरुं भोजयते यथा ॥११॥
सत्कारपूर्वकमिति । सत्कारपूर्विका 'कृपया भवतेदं करणीयम् , प्रसद्य भवतेदमित्यं करणीयमि' त्येवमादिरूपा प्रेरणाऽधीष्टम् । तत्कऽ येषक इत्यर्थः । तादृशी च प्रेरणाऽपकृष्टेनोत्कृष्टस्य सम्भवति, ततस्तथैवोदाहरणमाह-नर इति । श्रद्धापरः श्रद्धावान् । कोऽपीति । शिष्यादिरित्यर्थः । गुरुमिति । गुरुर्भुनक्ति, तं श्रद्धया सादरं प्रेरयतीत्यर्थः । अत्रोत्कृष्टाऽपकृष्टेत्यादि सम्भवप्रदर्शनमात्रम् । तेनोत्कृष्टादिनाऽपकृष्टादेरपि सत्कारादिपूर्वकप्रेरणायामध्येषकत्वादि बोध्यम् ॥११
अनुकूलभागिनमाह-- न प्रेषते नाऽध्येषते यस्त्वनुकूलभाग्यसौ। . चेतनाऽचेतनत्वेन स पुनर्विविधो मतः ॥ १२ ॥
न प्रेपत इत्यादि । क्रियायामनुकूलतां भजति, नतु प्रेरयति स उपचरितप्रेरक इति यावत् । स च तादृश् श्वेतनोऽचेतनश्च सम्भवत्यतोऽस्य द्वैविधमाह -- चेतनेत्यादिना । चेतनत्वेनाऽचेतनत्वेन चेत्यर्थः ॥ १२॥
क्रमेणोदाहरणमाहचेतनो जनकं पुत्रो यथा हर्षयति स्फुटम् । अचेतनस्तु कारीषोऽग्निरध्यापयति द्विजम् ॥१३॥
. 'स्तु स' इति क० ग• पाठः । स च 'तु' इतिपदस्य . पुनरत्योपेक्षितः ।