SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ११ कार विवरणम् अथ हेतुकर्तुरेव भेदानाह - agavistaar त्रेधा प्रेषकोऽध्येषकः परः । तथाsनुकूल भागी यस्तृतीयः कथितो बुधैः ॥ ९॥ अपीति । न केवलं कर्तेव, किन्तु हेतुकतीऽपीत्यपेरर्थः । त्रेति । तांस्त्रीनाह-प्रेषक इत्यादिना । पर इति । द्वितीय इत्यर्थः । तथेति । योऽनुकूलभागी स तृतीय इत्यर्थः ॥ ९॥ तत्र प्रेषकमाह- प्रभुत्वेन प्रयुङ्क्ते यः १ प्रेषकः स प्रकीर्तितः । यथा भृत्येन भूपालः कारयत्युत्वणं रणम् ॥ १० ॥ प्रभुत्वेनेति । न्यत्कारपूर्विका प्रेरणा प्रेष इदं कुर्विदमित्थं कुर्वित्यादिरूपा । उत्कृष्टेनाऽपकृष्टस्य नियोग इति यावत् । तां च प्रभुप्रभृतिरेव कर्तुं शक्नोति, ततः प्रभुत्वादिना प्रयोजकः प्रेषकः । एवञ्च प्रभुत्वेनेत्युत्कृष्टत्वोपलक्षणमित्यवगन्तव्यम् । तत्रोदाहरणमाहयथेति । भृत्यो रणं करोति, भूपालश्च प्रभुभावात्तं प्रयुङ्क्ते इत्यर्थः । एवञ्चात्र भूपालः प्रेषको हेतुती | उल्बणमिति । व्यक्तमित्यर्थः । उग्रमिति यावत् । अध्येषकमाह १' प्रेषकोऽयं प्रकीर्तित' इति क० ग० पाठः । स च ' यत्तदो नित्यसम्बन्ध' इति नियममाश्रित्योपेक्षितो बोध्यः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy