________________
कारक विवरणम्
११
तस्य मुख्यतयोक्तत्वात्प्रथमेति भावः ॥ ७ ॥ सम्प्रति मुख्यकर्तृपरिचयाय स्वयमेवाहमुख्यस्तु स प्रयोक्ता यश्चेत् प्रयुक्तो १ नचाऽपरैः । यथा चैत्रेण मैत्रेण श्रियं पोषयति प्रभुः ॥ ८ ॥
मुख्य इत्यादि । अयंभावः प्रयोज्यप्रयोजकौ द्वावपि प्रयोक्तारौ, एक: कर्मादीनामपरश्च प्रयोज्यस्य प्रयोक्ता । तत्र स प्रयोक्ता मुख्यो. योऽपरैरप्रयुक्तः । ननु स्वप्रयुक्त इत्येवमेवोच्यतामिति चेन्न । २ प्रागुक्तबृहन्न्यासस्वरसतो हि स्वप्रयुक्तत्वमप्युभयत्र तुल्यम्, अन्यथा स्वातन्त्र्यमेव विहन्येत । एवं च नैतद्विशेषणं व्यावर्तकमित्यतः प्रकारान्तरेण व्याचष्टे--न चाऽपरैरिति । तथा चाऽपरैरप्रयुक्तः प्रयोक्ता मुख्य इत्यर्थः । अपरैरिति बहुवचनमतन्त्रम् तेनैकेनाऽपि प्रयुक्तोऽपराऽप्रयुक्तो न भवतीत्यवधेयम् । यथेत्युदाहरणप्रदर्शने । चैत्रेणेत्यादि । मैत्रः श्रियं पुष्णाति तं चैत्रः प्रेरयति, चैत्रं च प्रभुः प्रेरयतीति णिगन्ताण्णिं । अत्र हि चैत्रमैत्रौ द्वावपि परप्रयुक्ताविति तयोः प्रत्ययानुक्तत्वादुभयत्र तृतीया । प्रभुश्च प्रत्ययोक्त इति ततः प्रथमा । यद्वा चैत्रं मैत्रं प्रभुः प्रेरयतीत्येकणिगन्त एव प्रयोग इति ॥ ८ ॥
"
१' श्चेत्प्रयुक्तः स नाऽपरैः इति क० ग० पाठः । परमीदृशः पाठः 'स' इत्यस्य पुनरुक्त्योपेक्षितः ।
२ 'प्रेषितोऽप्यसौ स्वार्थदर्शनादिच्छायां सत्यां क्रियां करोति तददर्शनान्न करोतीति स्वतन्त्र एवाऽसावि तिबृहन्न्यासग्रन्थः प्रागुक्तो बोध्यः ।