SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १० कारकविवरणम् त्प्रयोज्यः करोति नान्यथेति तस्य स्वातन्त्र्यमस्तीति, 'प्रेषितोऽप्यसौ स्वार्थदर्शनादिच्छायां सत्यां क्रियां करोति तददर्शनान्न करोतीति स्वतन्त्र एवासा " विति च । तथा च नन्दिरत्नमतिः "यः क्रियां कर्मकर्तृस्थां कुरुते मुख्यभावतः । अप्रयुक्तः प्रयुक्तो वा स कती नाम कारकमि" ति ॥ १॥ उदाहरणमाह-गौरिति । गौछत्र गमनक्रियायां स्वातन्त्र्येण विवक्षितेति कर्तृत्वं तस्या इति भावः । हेतुकर्तृलक्षणमाह-य इत्यादिना । कारयति-प्रयुनक्तीत्यर्थः । अन्यमिति । स्वभिन्नं कतारमित्यर्थः । १ अन्यथा कर्तृमात्रस्य स्वक्रियां प्रति कादिप्रयोक्तृत्वसत्त्वादतिव्यातेरित्यवधेयम् ॥ ६॥ ननु पूर्व षण्णां कारकाणामुक्ताऽनुक्ततया द्वैविध्यमुक्तम् , एवं च यत्र णिगन्तस्थले प्रयोजकः प्रयोज्यश्चेति कर्तद्वयम् , तत्र कः प्रत्ययेनोच्येतेति सन्देह इति चेत्तन्निरासायैवाह - अनेककर्तृके मुख्यं कतारं प्रत्ययो वदेत् । ... भूपतिः सूपकारेण पाचयत्योदनं यथा ॥७॥ अनेकेति । यत्राऽ-नेको गौणो मुख्यश्च कती, तादृशस्थल इत्यर्थः । णिगन्तस्थल इति यावत् । अन्यत्र तु न तथा सम्भव इति बोध्यम् । मुख्यमिति । प्रयोजकमित्यर्थः । गौणमुख्यन्यायादिति बोध्यम् । उदाहरणमाह-भूपतिरि-त्यादिना । अत्र हि सूपकारः प्रयोज्यतया भूपल्यपेक्षया गौण इत्यनुक्तत्वात्ततस्तृतीया, भूपतिशब्दाच १ अन्यथेति । अन्यपदेन कर्तुभिन्नस्य कर्मादेरपि परामर्श इत्यर्थः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy