SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् वस्तुतस्तूक्तं कर्तलक्षणमुपलक्षणं १ स्वातन्त्र्यस्येति बोध्यम् । स्वतन्त्र इति । क्रियायां स्वातन्त्र्येण विवक्षित इत्यर्थः । हेतुकर्तेति । प्रयोजककर्तेत्यर्थः । तथा च पाणिनिसूत्रम्-" तत्प्रयोजको हेतुश्चे" ति । यद्यपि प्रयोजकस्याऽपि स्वातन्त्र्यमेव । अत एव हैमे न तस्य पृथ-- क्र्तसंज्ञोक्ता । तथापि प्रयोजकत्ववैशिष्ट्यात्पृथगुक्तिः । एवञ्च यत्र न किमपि प्रयोजकत्वादिरूपं वैशिष्ट्यम् , स एवाऽत्र स्वतन्त्रशब्देन विवक्षितः । अत एव स्वातन्त्र्याऽविशेषेऽपि कर्मकर्तुरपि पृथगभिधानमिति मन्तव्यम् । कर्मकती च यत्र कर्मैव सौकातिशयाकर्तत्वेन विवक्ष्यते सः । तदेतत्सर्वमग्रे स्फुटीभविष्यति ॥ ५ ॥ तेषां त्रयाणां प्रत्येकं लक्षणाद्यभिधित्सुराहन परैः प्रेयते यस्तु स्वतन्त्री गौः प्रयातिवत् । यः पुनः कारयत्यन्यं हेतुकती स कथ्यते ॥६॥ न परैरिति । अस्य क्रियासिद्धावित्यादिः । प्राधान्येन विवक्षित इति समुदायभावार्थः । शब्दार्थाऽनुसरणे तु प्रयोजकसन्निधाने प्रयोज्यस्य कर्तृत्वं न स्यात् , परप्रेरितत्वात् । उक्तभावार्थाऽनुसरणे तु प्रयोज्यस्याऽपि क्रियाया मुख्यभावेन करणात्प्राधान्यमस्त्येवेति कर्तृत्वमुपपद्यते । यदुक्तं बृहन्न्यासे-"प्रयोजकसन्निधानेऽपि स्वार्थदर्शना १ स्वातन्त्र्यस्येति । एवञ्चाऽत्र 'किमपि करोती' त्युक्तिस्वारस्यास्वातन्त्र्यं फलानुकूलव्यापाराश्रयत्वमेवेति तात्पर्यमवगन्तव्यम् । व्यापारम चेतनाऽचेतनसाधारणो धर्मः। ततश्चाऽचेतने कर्तृत्वशङ्कासमाधाने नाऽतीवोचिते इति प्रतिभाति । पतनाद्यनुकूलव्यापारस्य नदीकूलादौ सत्त्वेऽविवादात् ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy