SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् तृतीयका इति । तृतीयेत्यर्थः । स्वार्थे कः। विभक्तय इति । अस्याऽग्रिमकारिकोक्तेन 'इमा' इत्यनेनाऽन्वयः। नन्वेतद्वालानामपि सुगममिति नैषोऽध्यवसायो विशेषकर इति चेत्तत्राहइतीत्यादिना । सविस्तरा इति प्रतिज्ञातं कारकेषु प्रत्येकं तत्तद्विशेषप्रदर्शनेन पूरयिष्यन् प्रथमं प्राथम्यालक्षणप्रदर्शनपूर्वकं कर्तृविशेषमेवाह यः करोति किमप्येष कता स त्रिविधो मतः । स्वतन्त्रो हेतुकती च कर्मकती तथाऽपरः ॥ ५ ॥ यः करोतीत्यादि । तदुक्तम् "फलार्थी यः स्वतन्त्रः सन् फलायाऽऽरभते क्रियाम् । नियोक्ता परतन्त्राणां स का नाम कारकमि" ति ॥१॥ परतन्त्राणां कादीनामित्यर्थः । नन्वेवं 'नदीकूलं पतती , त्यादौ कूलादेः कर्तृत्वं न सम्भवति, फलार्थित्वस्य फलार्थक्रियारम्भस्य परतन्त्रनियोक्तृत्वस्य च चेतनधर्मतयाऽचेतने कूलादौ तदसम्भवादिति चेन्न । “नदी कूलं पातयति'. " कूलं पतवृक्षं पातयती" त्यादौ कूलादी तत्त्वोपचारदर्शनादुपचारेणैवाऽचेतनस्थले कर्तृत्वाऽवगमात् । बृहन्न्यासे तु-" सामान्येन कर्तृव्यापारे पदं निष्पाद्य पश्चात्पदान्तरयोगः, नान्तरङ्गं पदसंस्कारं बहिरङ्गः पदान्तरसम्बन्धो बाधत " इति समाहितम् । वाक्यसंस्कारे तु मदुक्तैव गतिरित्यवधेयम् ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy