SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् तन्न वव का विभक्तिरित्याह - उक्तेष्वित्यादि । गौणादित्यधिकृत्य द्वितीयादीनां विधानात्परिशेषादुक्तेषु प्रथमाया एव प्राप्तेः । उक्तता च यथा त्यादिना, तथा कृता तद्धितेन समासेन निपातेन च । तत्र . त्यादिषु स्वयमेवाग्रे वक्ष्यति । समासेनाऽभिधानं यथा - ' चित्रगुश्चैत्र ' इति । अत्र चित्रा गावो यस्येति षष्ठ्यर्थसम्बन्धस्य समासेनैवोक्तत्वान्न चैत्रपदात्पष्ठी, किन्त्वर्थमात्रे प्रथमेव । निपातेनाऽभिधानं यथा - 'विष1 वृक्षोऽपि सम्वर्ध्य स्वयं च्छेत्तुमसाम्प्रतमिति, ' क्रमादमुं नारद इत्यबोधि सः' इत्यादौ । असाम्प्रतमित्यस्य हि सम्प्रति न युज्यत इति कर्मप्रधानोऽर्थः । ततश्च विषवृक्षरूपकर्मण उक्तत्वात्प्रथमेव । तत्राऽपिना कर्मोक्तमित्यपि मतम् । इति शब्देन कर्मण उक्तत्वाच्च न नारदपदाद्वितीयेति बोध्यम् । इमा इति । द्वितीयादयो विभक्तयों वक्ष्यमाणा इत्यर्थः ॥ २ ॥ अनुक्तेषु क्व केत्यपेक्षायामाह - कर्मणि द्वितीया कर्तृकरणयोस्तृतीयका । सम्प्रदाने चणुर्थी स्यादपादाने तु पञ्चमी ॥ ३ ॥ 'आधारे सप्तमी षष्ठी सम्बन्धे च विभक्तयः । इति सङ्क्षेपतः प्रोक्ता वक्ष्यन्तेऽग्रे सविस्तराः ॥ ४ ॥ १ आधारे सप्तमी सम्बन्धे च षष्ठी विभक्तय इति क. ग. पाठः ईदृशः पाठः • कर्मणि द्वितीये' त्य दिवत्कारकस्य प्राथम्येनोपादानक्रमाऽनुरोधादिति प्रतिभाति । परमत्र पाठे यतिभङ्गः, षष्ठीविभक्तय इत्येवं समस्तपदत्वभ्रभदशायां विभक्तिपदस्य द्वित्तीयेत्यादावन्क्योऽस्फुटश्च स्वादिति ध्येयम् ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy