________________
" बह्वल्पार्थादि ” त्यादिना शसापर्त्तिरिति वाच्यम् । १ अनभिधानादेव तादृशस्थले प्रत्ययाऽप्रवृत्तेरिति ध्येयम् ।
एवञ्च "क्रिया हेतुः कारकमि " तिसूत्रे बृहद्वृत्तिस्थं "हेत्वादेरिति प्रतीकमुपादायाऽऽदिना सम्बन्धं परिगृह्य तस्याऽकारकत्वमित्यभिधाय तत एव 'न शति' त्युक्तिं लघुन्यासकर्तुरुक्त बृहन्न्यासाऽपरिशीलनमूलक मित्यवधेयम् ।
यत्र च व्यापारविशेषविवक्षा, तेषु षट्सु विशेषमाह - २ उक्तानुक्ततया द्वेधा कारकाणि भवन्ति षट् । उक्तेषु प्रथमैव स्यादनुक्तेषु क्रमादिमाः || २ || उक्तेत्यादि । यस्मिन् प्रत्ययस्तदुक्तम्, मुख्यमित्यर्थः । अन्यदनुक्तम्, गौणमित्यर्थः । प्रत्ययवाच्यत्वाऽवाच्यत्वाभ्यामेवो-क्तानुक्तत्वव्यवस्था । तदुक्तं बृहद्वृत्तौ - " आख्यातपदेना ऽसमानाधिकरणं गौणमि " ति "त्याद्यन्तपदसामानाधिकरण्ये प्रथमे " ति च । तानि कारकाणि सर्वाणि द्विधा कतिपयानि वेत्याशङ्कानिवृत्तये आहषडिति । षडेवेत्यर्थः । न्यूनमेतत् । मत्वर्थादेः प्रत्ययस्य सम्बन्धे विधानात्तस्योक्तत्वाद् 'गोमान् देवदत्त ' इत्यादौ न षष्ठी, किन्तु प्रथमैव । एवञ्च सम्बन्धोऽप्युक्ताऽनुक्ततया द्विधा । अत एव बृहद्वृत्तावभिहितोदाहरणे 'गोमान् मैत्रः, चित्रगुःश्चैत्र' इत्युदाहृतमिति बोध्यम् ।
कारक विवरणम्
.
ये
१ अनभिधानादेवेत्यादि । बहुशो वस्त्रमिवं प्रयोगे लोके बहूनां वस्त्रमित्यर्थाऽबोधाप्त्तथाप्रयोगाऽभावात्, अप्रयुक्ते च शास्त्राऽप्रवृत्तेः । यदुक्तं
- ' यथालक्षणमप्रयुक्ते ' इतिभावः ।
२ उक्तेत्यादि । षट्कारकाण्युक्ताऽनुक्ततया द्वेधा भवन्तीत्यन्वयः ।