SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् श्चित्समर्थनीयत्वात् । तथा च “शेषे” इतिसूत्रे बृहद्वृत्तिः - "कर्मादिभ्योऽन्यः क्रियाकारकपूर्वकः कर्माद्यविवक्षालक्षणोऽश्रूयमाणक्रियः श्रूयमाणक्रियो वाऽस्येदंभावरूपः स्वस्वामिभावादिः सम्दन्धविशेषः शेष” इति । अत्रैव च क्रियाकारकपूर्वक इति प्रतीकमुपादाय शब्दमहार्णवन्यासः - " एतच्च बाहुल्याभिप्रायेण नत्वेकान्तिकम् । यतः कारकाणां कर्मादीनामविवक्षया सामान्यकारकः विवक्षायामेव केवलायां सम्बन्धप्रादुर्भावात्कारकशेष इति व्यवह्रियते इत्याह-कर्माद्यविवक्षालक्षण इति । कर्मादिभ्योऽन्य इति तु विशेषेभ्योऽन्यत्वं विवक्षितुं न तु सामान्यादनाश्रितविशेषत्कारकादपि । एवम् " सम्बन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते" ॥ १ ॥ इत्यत्रापि द्रष्टव्यमिति । हेत्वादौ तु हेतृत्वादिमात्रेण तत्तद्विभत्तिविधानमिति न तत्र व्यापारसामान्यविवक्षाऽपीति न तस्य कारकत्मम् । ननु सम्बन्धस्य कारकत्वे “ नानः प्रथमैके" त्यादिसूत्रे बृहवृत्तौ-" सा स्वराश्रयाश्रितक्रियोत्पनिहेतुः कारकरूपा तत्पूर्वकसम्बन्धरूपा च शक्तिरि" त्ति ग्रन्थस्य का गतिः, कारकपदेनैव बम्बन्धस्याऽपि ग्रहणत्तस्य पृथगुक्तरनवकाशादिति चेन्न । उक्तबृहन्न्यासपर्यलीचनयाऽत्र कारकपदस्य कारकविशेषपरतयैव प्रयोगस्योपपादनीयत्वात् । एवं “शेषे” इति सूत्रस्थबृहद्वृत्तिग्रन्थेऽन्यत्राऽपि च बोध्यम् । न च सम्बन्धस्य कारकत्वे 'बसूनामिदं वस्त्रमि' त्यादौ
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy