________________
कारकविवरणम्
द्रव्यस्य शक्तेश्च पृथक्कारणत्वाऽअत्तिरिति द्रव्यस्य कारकत्वादिप्रवादो नाऽनुपपन इत्याहुः।
___ न च वहिमण्यादेस्तथा स्वभाव एव, येन दाहतत्प्रतिबन्धादिरिति वाच्यम् । शक्तेरितरथाऽनिर्वचनीयतया कथञ्चित्स्वभावरूपाया एव तस्या अङ्गीकारौचित्यात् । किन्त्वयं शक्तिलक्षणः स्वभाव उत्पादविनाशशालीति कथञ्चिद्भिन्नोऽपीति विशेषः । एवं च वयादेदाहादौ विधातव्ये शक्तेरेव द्वारता, अन्यथाऽचेतनतया तस्य कारकत्वमेव विलुप्येत । करोतीति कारकमित्यन्वर्थव्युत्पत्त्याऽऽश्रितव्यापारस्यैव कारकत्वसिद्धान्तात् । अन्यथा हेत्वादेरपि कारकत्वाऽऽपत्त्या 'विद्ययोषित' इत्यादौ "कारकं कृते" ति समासापत्तेरिति स्पष्टं वृहदवृत्तौ हैम्यामित्यवधेयम् ।
तत्र यत्र व्यापारविशेषविवक्षा, तानि कारकाणि षडित्याहषट्स्युरिति । यत्र च व्यापारसामान्यविवक्षा, तत्र तात्पर्यतः सम्बन्धमात्रमेव विवक्षित भवतीति सम्बन्धोऽपि कारकमेवेत्याह-सम्बन्धस्त्वित्यादि । एतद्विशेषद्योतनायैव तुना तस्य पृथगुक्तिरित्यवगन्तव्यम् । सप्तममिति । अत्र कारकाणीति विशेष्यं विभक्तिविपरिणामेनाऽन्वेतीति बोध्यम्।
. न चैवं 'षष्ठ्याः कारकत्वं नास्ती' ति प्रवादो विरुध्यते, षष्ठ्याः सम्बन्धे विधानात् , तस्य च भवता कारकत्वस्वीकारादिति वाच्यम् । तादृशप्रवादस्य व्यापारविशेषविवक्षाऽभावमूलकतयैव कथ. १ अन्यथेति । अनाश्रितव्यापारस्याऽपि कारकत्व इत्यर्थः ।