SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् साधनं क्रियायाः प्रवृत्ति र्भवति, क्रियामध्ये च कारकमध्यमपि भवति, तत्र कारकमध्य इत्येव सिद्धमि' ति । तत्र साधन शक्ति, सा च द्रव्यैक्येऽपि कालभेदेन मिनेति मध्यव्यपदेशस्य सूपपादत्वाद्वार्त्तिकं नाइडरम्भणीयमिति तद्भावः । १ अनभिहिते' इति पाणिनीयसूत्रेऽपि च पुनः साधनं न्याययम् ? गुण इत्याह, कथं ज्ञायते ? एव हि कश्चित्पृच्छति क्व देवदत्त इति स तस्मायाचष्टेऽसौ वृक्ष इति । कतेरस्मिन् ?, यस्तिष्ठति । स वृक्षोऽधिकरणं भूत्वाऽन्यशब्देनाभिसम्ब ध्यमानः कसी सम्पद्यते । द्रव्ये साधने यत्कर्म कर्म स्यात्करण करणमेव यदधिकरणमधिकरणमेवेति । कैयटेन च-यदि द्रव्यं साधनं स्यात्तदा तस्यैकरूपत्वात्रिबन्धनाऽवा वितप्रत्यभिज्ञा विषयत्वान्नानाऽर्थक्रिया कारणनिबन्धन 'घटेन जलमाहर, घटं कुरु, घटोऽस्ती त्या दिव्यपदेशो न स्यात्, हृदयते चाऽसौ, तस्मान्नानाशक्तिभावाऽवगमः सिद्ध इति तद्विवृतम् । इक्तिस्तत्वाभावे तु तद्विरोधः स्पष्ट एवं । ! परे तु शक्तिविशिष्टतया द्रव्यस्यैव कारकत्वम् अन्यथा १ . साधनशब्दस्य शक्त्यर्थत्वमप्रसिद्धम्, किन्तु साधनं कारक मित्येव प्रसिद्धमिति नैतद्भाष्येण शक्तिः कारकमिति लभ्यते ' इत्याशङ्कां निराकरिष्णुरिह भाष्ये सावनपदं शक्तिपर मित्यत्र - 'अनभिहिते' इति सूत्रस्थं भ्राष्यं कैयटं च प्रदर्शयन्नाह - अनभिहिते इत्यादि । २ हृदयते इति । इष्ट इत्यर्थः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy