________________
कारकविवरणम्
नेमि शासनसम्राजं विज्ञानं शान्तमूर्तिकम् ।। सिद्धान्ताऽब्धि च कस्तूरं गुरून् सूरीन् सदा भजे ॥२॥ वाक्सुधासिक्तजनताऽऽराममारादुपास्महे । गुरुं गणिं यशोभद्रं पन्यासाऽऽकाशसन्मणिम् ॥३॥ स्मरामि शाब्दिकान् प्राचो निशि दीपान् वचस्त्विषः । यदाश्रयेण गच्छन्ति मादृशास्तत्त्वपद्धतिम् ॥ ४ ॥ सूर्योदयाऽऽवशिष्याऽभ्यर्थितः शुभङ्करः सोऽहम् ।। कारकविवरणटीकां भद्रकरोदयाऽभिख्यां कुर्वे
कारकाणीति । कारकं हि स्वपराश्रयसमवेतक्रियानिवर्त्तिका द्रव्यनिष्ठा शक्तिः । द्रव्यस्य हि कारकत्वे वह्न्यादेः कारणस्य सत्त्वदशायां मण्यादिना दाहादेः प्रतिबन्धो न स्यात् । शक्तेस्तत्त्वे तु प्रतिबन्धकेन मण्यादिना तन्नाशाद्भवति दाहादिप्रतिबन्धः । । यद्यपि मण्यादिशक्तेरेवैवं दाहानुकूलशक्तिनाशकत्त्वम् , शक्तेरेव कारकत्वादिति मण्यादीनां प्रतिबन्धकत्वप्रवादोऽनुपपद्यते, तथापि शक्तिशक्तिमतोरभेदमाश्रित्यैव मण्यादेस्तादृशप्रवादो वन्यादे दाहकत्वादिप्रवा दश्चति बोध्यम्। .
अत एव " सप्तमीपञ्चम्यौ कारकमध्ये" इति पाणिनीयसूत्रे द्रव्यस्य कारकत्वपक्षे 'ऽद्य भुक्त्वाऽयं व्यहे व्यहाद्वा भोक्ते ' त्यादाविदंपदवाच्यस्य द्रव्यस्य क्त्वातृप्रत्ययार्थस्यैक्यात्कारकद्वयाऽभावान्मध्यव्यपदेशाऽयोगात्सप्तमीपञ्चम्योरप्राप्त्या तदुपपादनायोक्तस्य 'क्रियामध्य इति वक्तव्यमि' तिवार्तिकस्य प्रत्याख्यानायोक्तम् भाष्ये-- 'नान्तरेण