SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९२ कारकद्याश्रयकाव्यम् असाधयन्न पुत्रेभ्यो १ दारेभ्यो २ ददृशु न च । प्रोषु लाभाय ३ राध्यन्तोऽपश्यन्तः श्रान्तये ४ ऽध्वगाः ॥ ५७ ॥ असाधयन्नित्यादि । अध्वगाः प्रवासिनः पुत्रेभ्यो नाऽसाधयन् मयि प्रोषिते कथमेते भविष्यन्तीति विमतिपूर्वकं पुत्रादिक्षेमादिविषयं दैवं न पयालोचयन् । तथा दारेभ्यश्च न ददृशुः, मद्विरहे इयं कथं भविष्यतीति विमतिपूर्वकं दारक्षेमादिविषयं दैवमपि न पर्यालोचयन् । तत्र हेतुगर्भ विशेषणमाह-लाभाय राध्यन्तः, वाणिज्यादिना विकल्पपूर्वकं लाभविषयं दैवमेव पयालोचयन्तः, अत एव श्रान्तये प्रवासजनितश्रमाय अपश्यन्तो विकल्प्य भाविश्रमविषयं दैवमपालोचयन्तः प्रोषुः प्रवासं कृतवन्तः । लाभलोभाभिभूतो लाभायैव पश्यति यतते चेति भावः । शरदि वणिजादयो व्यापारार्थ देशान्तरं यान्ति ॥ ५७ ॥ ... लोहिनीव तडिज्ज्योत्स्ना तापाय १ विरहे हि तत् । स्त्रैणं स्म श्लाघते पत्ये २ तिष्ठते शपते हनुते ॥ ५८ ॥ ___ १-२ राधीक्ष्यर्थधातुयोगे चतुर्थी । ३-४ राधीक्ष्यर्थविषयादपि इति मते चतुर्थी ॥ ५७ ॥ १ उत्पातेन ज्ञाप्ये चतुर्थी । २ श्लाघादिधातुयोगे शीप्स्यमानाचतुर्थी ॥ ५८ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy