________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
रात्स्यन्तीत्यादि । नाथ ! स्वामिन् !, यद्यपि देशान्तरं गन्तुं कृतनिश्चयस्य तव योगक्षेमौ संशयामहे, तथाप्याशंसे यत् , तुभ्यं देशान्तरं गच्छतस्तव योगक्षेमविषयं देवं देवता इष्टदेवाः, वनदेवताजलदेवतादयश्च रात्स्यन्ति पयालोचयिष्यन्ति । देवतास्तव योगक्षेमं वक्ष्यन्तीत्यर्थः । मह्यं किमीक्षसे ?, किमितिक्षेपे । मां नेक्षितव्यमित्यर्थः । मम विरहे कथमियं भवितेति संशय्य मम क्षेमादिविषयं देवं किं निरूपयसि ? तव योगक्षेमयोर्ममाऽपि तनिश्चयादिति भावः । एवमुक्तप्रकारेण कुलयोषितः कुलस्त्रियः सांयात्रिकेभ्यः पोतवणिग्भ्य आराधयन् संशय्य क्षेमादिविषयं दैवं पोलोचयन् । देवेषु श्रद्धाऽतिशयात्सविश्वासमूचुरित्यर्थः । कुलीनत्वादिति बोध्यम् । नत्वकुलीना इव क्षेमादिविषयं देवं संशय्य यात्रां निषेधयामासुरिति भावः । यद्वा देव! देववदाराधनीय ! नाथ ! ता मत्सपत्न्य स्तुभ्यं रात्स्यन्ति त्वं कदा गन्तेति विकल्प्य तव गमनं पालोचयिष्यन्ति, तासामकुलीनत्वादिति भावः । मद्यं किमीक्षसे ? अस्याः कीदृशोऽभिप्राय इति संशय्य किं निरूपयसि ?, मम कुलीनत्वारवां विना मम क्षणमपि स्थितिर्दुःसहेति त्वं नैव याहीत्येव ममाऽभिप्रायो नाऽत्र संशयः कार्य इत्येवं कुलयोषितः सांयात्रिकेभ्यस्तेषामभिप्राय विकल्प्य आराधयन् पालोचयन्नित्यर्थः ॥ ५६ ॥
पूर्वकं ततश्चतुर्थी ॥ ५६ ॥