________________
कारकद्याश्रयकाव्यम्
ऋणं धारयन्निव रिक्तोऽपि न ययावित्यर्थः । शरदि मेघा भवन्ति, जलरिक्तत्वाद्वर्षन्ति नेतीत्थमुक्तिः ॥ ५४ ॥
ध्वानैः प्रत्यशृणोन्मैत्री शिखिभ्यो १ ऽनुगृणन् घनः । तस्मै २ प्रतिगृणन्तस्तेऽप्याशृण्वन् केकयाऽथ ताम् ॥५५॥ ____ध्वानरित्यादि । घनो मेघो ध्वानः स्तनितैः कृत्वा शिखिभ्यो मयूरेभ्योऽनुगृणन्ननुवदन् , मयूरोक्तमनुवदन्निव केकारवं कुर्वतो मयूरान् प्रोत्साहयन्निव वा तेभ्यस्तैरेव मैत्री सातिशयां प्रीतिं प्रत्यशुणोत् प्रतिज्ञातवान् , स्वीचकारेवेत्यर्थः । लुप्तोत्प्रेक्षा । एवमग्रेऽपि । शरदि धनध्वनिकेकयोः सन्तति जायत इतीत्थमुक्तिः । अथ पुनः, सत एव, तस्मै घनाय केकया स्ववाण्या केकाख्यया प्रतिगृणन्तो
नोक्तमनुवदन्त इव गर्जन्तं तं प्रोत्साहयन्त इव वा ते मयूरा अपि तयैव तस्मै तां मैत्रीमाशृण्वन् प्रतिज्ञातवन्तः, स्वीचक्रुरिवेत्यर्थः । पथपि शरद्यपि मेघध्वनिः केकिकेका च, तथापि वसन्तभिन्नकाले सतोऽपि कोकिलकूजितस्य वर्णनमिव कविसमयविरुद्धम् । अथाऽपि बहुभिः कविमिराहतमिति भावनीयम् ॥ ५५ ॥
रात्स्यन्ति देवतास्तुभ्यं १ नाथ ! किं मह्य २ मीक्षसे । एवमाराधयन् सांयात्रिकेभ्यः ३ कुलयोषितः ॥ ५६ ॥
१-२ प्रत्यापूर्वशृणोते योगे प्रत्यनुपूर्वगृणातेोंगे चाऽथिन्याख्यातरि च चतुर्थी ॥ ५५ ॥
१-३-३ राधीक्ष्योस्तदपर्कघातोश्च प्रयोगे यविषयं पर्मालोचनं लिमति.