________________
कारकड्या श्रथ काव्यम्
मूलोत्प्रेक्षा । तथा स कालं यमं घातयामास धनन्तं प्रेरयामास, कालस्तेन ग्राहरिपुणा नै, घातयामासेति सम्बध्यते । स एवं कालस्य प्रेरको नतु स्वयं कालवश इति तस्य महाप्रतापित्वं ध्वन्यते । युद्धादिना सोऽसमयेऽपि बहून् जघान नंतु स्वयं क्वापि म्रियतेऽतिबलशालित्वादित्याशयः । यस्मिन् स प्रसीदति स जीवति यस्मै च कुप्यति सोऽवश्यं म्रियते इति निष्कर्षः ॥ ५ ॥
सोऽजीगमत्खेदमिला ' बलौवैरबोधयद्भाररुजं फणीन्द्रम् २ |
अदर्शयत्कालपुरी मराती ३नभोजयत्तत्पिशित पिशाचान् ४ ॥ ६ ॥
स इत्यादि । स माहरिपु बलौघैः सैन्यसमूहैः कृत्वा इला महीं खेदं श्रममजीगंमदप्रापयत् । अत एव तैरेव स फणीन्द्र शेषनागं फणघृतपृथिवीकत्वाद् भाररुजं सैन्यसमूहभारवत्पृथिवीभारजन्यां द्विगुणीकृतां पीडां परम्परयाऽबोधयदनुभावयामास । तथा तैरेव सोऽरातीन् शत्रून् कालपुरीं यमनगरमदर्शयत् शत्रून वधीदित्यर्थः । अत एव च तेषामरातीनां पिशितं मांसं पिशाचान् प्रेतविशेषानभोजयत् । महाबलसमन्वितो विजयी च स इति भावः ॥ ६ ॥
"
१-२-३-४ गतिसामान्यबोधविशेषबोधाऽऽहारार्थानां धातूनामणिक्कनिंगि कर्मता ॥ ६॥