________________
मद्ररोदयाख्यध्याख्यासहितम्
किमिति वितर्के । यतोऽयमुक्तप्रकारा अनीती: करोति, ततस्तथा शके इत्यर्थः । किञ्च तेषु प्रत्येकमेककम् , अत्र तत्सर्वमेकोति तेभ्योऽप्ययमत्याचारीति ध्वनिः ॥ ४ ॥
तस्य प्रतापातिशयं वर्णयन्नाह-~गजाऽश्वगाः १ सिन्धुपति २ ममन्थ महीभृतो ३ भेद ४ मुवाह चेत्थम् । इन्द्रं ५ गुणान् । दण्डितवान्नु कालं ७ स घातयामास न तेन ८ कालः ॥५॥
गजाश्वगा इत्यादि । स ग्राहरिपुः सिन्धुपति सिन्धुदेशेशं गजाश्वगाः गजानश्वान् गाश्च वृषभादींश्च ममन्थ पराजित्य दण्डरूपेणाग्रहीत् । तथा, महीभृतो नृपान् संहत्य स्थितान् भेदमसंहतत्वं, भिन्नमतिकत्वनित्यर्थः । उवाह निनाय च । कूटनीतिप्रयोगेण भेदितवानित्याशयः । इत्थमनेन सिन्धुमन्थनमहीभृद्भेदप्रकारेण कृत्वा स इन्द्रं देवेन्द्रं गुणान् वैलक्षण्याणि, विशेषानित्यर्थः । दण्डितवान् बलाजग्राह । वित्युत्प्रेक्षायाम् । तेन चेन्द्रादप्तरिकवलवत्त्वं तस्य धन्यते । इन्द्र ऐरावतं गजमुच्चैःश्रवसमश्वं कामधेनुं च समुद्रं ममन्थ वज्रेण महीभृतोऽद्रींश्च विभेदेति पौराणिकाः । ते गुणाश्चाऽत्राऽसीति शब्दसाम्य
१-२-३-४-५-६ द्विकर्मकधातुप्रयोगे यथायथं मुख्यं गौणं च कर्म । ७- -णिग्यविवक्षितकर्मणो हन्तेः कर्तुणिगि वा कर्मतेति यथायथं द्वितीया हतीया च ॥५॥