________________
१५०
कारकट्याश्रयकाव्यम्
निधीन् निध्यात्मकधनानि विजिगीषते । सदा कोपवृद्धिं चिन्तयतीति यावत् । तथाऽसौ युधि विपक्षैः प्रतिपक्ष दिभिः प्राणान् मिक्ष्यते च, बतेति सेदे । स्वभर्तृभावं स्वस्वामित्वं नीयते प्राप्यते च । विपक्षास्तत्स्वामित्वं स्वीकुर्वन्ति स्वप्राणांस्त्रायन्ते चेति चद्वयं समुच्चये । आज्ञामस्वीकुर्वतः प्रतिपक्षान् हन्त्येवेति यावत् । नाऽऽज्ञास्वीकारं विना विपक्षान् जीवतो मुञ्चतीति सरलार्थः । एतेन पराक्रमी तेजस्वी चाऽसौ दुर्निया इति ध्वन्यते ॥ ३ ॥
तस्याऽऽततायित्वमाह-
२
अहेऽन्यदारान् १ स्वपुरीं दशास्यो गां कार्तवीर्यो यतिनं ४ मुमोष । भ्रूणान ५ कर्षद् भगिनीं च कंसोsग्रहीत् किमेतान ७ सकावनीतीः ८ ॥ ४ ॥
जह्वे इत्यादि । दशास्यो रावणोऽन्यदारान् रामभायी सीतां स्वपुरीं लङ्कां जहेऽपहृत्य निनाय, कार्त्तवीर्यः सहस्रार्जुनो यतिनं मुनिं जमदमिं गां कामधेनुरूपां धेनुं मुमोषाऽपजहार, कंसो मथुरा नरेशस्तदाख्यो भगिनीं जामि देव भ्रूणान् गर्भीनकर्षद् गृहीतवान् । प्रसिद्धा एताः पुराणवर्णिताः कथा लोके । असकौ कुत्सितोऽसौ प्राहरिपुरेतान् दशास्यादीननीतीः परदाराऽपहरणादिरूपाननाचारानग्रहीत्
१-२-३-४-५-६-७-८ द्विकर्मकघातूनामन्यदारादिकं मुख्यं स्व. पुर्यादिकं चाऽमुख्यं कर्म यथायथं बोध्यम् ॥ ४ ॥