________________
१४८
भद्रङ्करोदयाख्यविवृतिसहिता
विश्वं ५ ततापाऽऽट दिशो ६ ललचे
ब्धी ७ नास दुर्गाणि ८ भयं न लेभे ॥१॥
महैनसामित्यादि । स ग्राहरिपुः स्वतन्त्रः स्वैरवृत्तिः, कुकर्म तपस्विपीडनादिरूपदुराचारं कर्ता कुर्वन् क्रियाणां धात्वर्थरूपाणां गतिस्थित्यादीनां कारकवत् कारकमिव महैनसां महतामतिदुष्फलानामेनसां पापकर्मणां वक्ष्यमाणप्रकाराणां हेतु जनकःप्रयोजकश्च विश्वं सर्वाः प्रजास्तताप सन्तापयामास । केन प्रकारेणेत्याह-दिशः सर्वासु दिक्षुआट बभ्राम, अब्धीन ललचे, दुर्गाण्यास बभञ्ज । त्राणार्थ दिक्षु पलाय्य समुद्रेषु दुर्गेषु च कृतसंश्रया अपि प्रजा दिशो भ्रान्त्वाऽ. ब्धीन् विलय दुगाणि भत्तवा च ततापेत्यर्थः । एवं कुर्वश्च कुतोऽपि भयं न लेभे । कुकर्म पापं चाऽपि कर्तृ फलदाने स्वतन्त्रः पापान्तराणां हेतुर्दिगादिस्थितानपि स्वदुष्परिणामेन विश्वं तापयतीति ग्राहरिपुः पापात्मेति ध्वन्यते ॥ १॥
विश्वतापनमेव विशदीकुर्वन्नाह -- केल्याऽप्यटन भापयते स भूपान् ? वसूनि १ गा २ दोग्ध्यनुशास्त्यधर्मम् ।। मुनीन्न ४ सामाऽऽह ५ रुणद्धि वृत्तिं ६
न सत्पथं पृच्छति याचतेऽर्थम् ८ ॥२॥ ५ इष्टं विकार्य कर्म ।६ इष्टं प्राप्यं कर्म । ७ अनिष्टं निर्वत्यै कर्म । ८ अनिष्टं विकार्य कर्म ९ अनिष्टं प्राप्यं कर्म ॥१॥
१ अनुभयं प्राप्यं कर्म । २-३-४-५-६-७-८ यथायथं द्विकर्म •