________________
॥ अर्हम् ॥ श्रीविजयनेमि--विज्ञान--कस्तुर--सूरि--पन्यासयशोभद्रसद्गुरुभ्योनमः ।
* कारकड्याश्रयकाव्यम् ॐ भद्रङ्करोदयाख्यव्याख्याविभूषितम् ।
जयति स जिनो गरीयान् यदास्यनिःसृतवचोऽमृतं लोके । भवमरौ कर्मधर्मे:खिन्नान् तृष्णाऽऽकुलान् सुखयति ॥१॥ नत्वा गुरुं यशोभद्रं वितनोति शुभङ्करः । कारकट्याश्रये लध्वीं व्याख्यां भद्रकरोदयाम् ॥२॥
अथ रात्रौ स्वप्ने " प्रभासविध्वंसपरेषु तेषु दण्डोशना त्वं भव सज्यधन्वे" ति शम्भोःप्रभासेशस्य सोमनाथस्य निदेशमाप्य प्रातः सभामधिष्ठितेन श्रीमूलराजेन स्वयंप्रतिष्ठापितस्याऽऽभीरस्य सुराष्ट्रेशस्य ग्राहरिपुसमाख्यस्य तपस्विपीडनाद्यविनयदुष्टस्य साधनोपायं पृष्टो मुख्यामात्यो जेहुलस्तन्निग्रहमुपदिश्य राज्ञस्तत्र प्रवृत्तये तस्य ग्राहरिपोर्दुराचारं वर्णयन्नाह
महैनसां कारकवत्क्रियाणां हेतुः २ स्वतन्त्रः ३ स कुकर्म की ।
१ कारकलक्षणमुक्तम् । २-३ कारकमेदौ । ४ कर्तुस्तृतीयः कर्मकाल्यो मेदो निर्वत्यमिष्ट्र कर्म च मङ्ग्योक्तम् ।