________________
कारकपरीक्षा
" साध्यसाधनसम्बन्धः सर्वाऽऽख्यातेषु गम्यते । सर्ववाक्येषु चाऽऽख्यातं तेनाऽऽकाङ्क्षानिवर्तनात् ॥ १ ॥ तिङन्तेन यदा योगः स्याद्यन्तस्येह जायते । सम्पूर्ण तत्र जानीहि वाक्यस्याऽर्थ तदा ध्रुवम् ” ॥ २ ॥ इति कारकाणां परीक्षा ॥
अस्तु तर्हि अवयवक्रियैव, किं प्रधानक्रियया ? । नैवम् । यदि प्रधानक्रिया न स्यात् , तदाऽवयवक्रियाणां भेदाद् देवदत्तादीनामेकवाक्यत्वं न स्यात् । एकक्रियानिबन्धनमेकवाक्यत्वम् । तच्च क्रियाभेदे न स्यात् । प्रधानक्रिया सर्वकारकाणां साध्या, इति युक्तं तदपेक्षयकवाक्यत्वम् ।
भद्रकरोदया अवयवक्रियैवेति । कारकाणं स्वगतक्रियावाचकाऽऽख्यातपदाऽध्याहार एवाऽस्त्वित्यर्थः । एवञ्च तादृशक्रियाऽन्वयात् नाऽसम्बन्धो न वा सन्धिग्धार्थता नाऽप्यसम्पूर्णीऽर्थतेति भावः । एकक्रियानिबन्धनमिति । एकक्रियाऽन्वयित्वं ह्येकवाक्यत्वम् “एकतिङ् वाक्यमि" ति, 'सविशेषणमाख्यातं वाक्यमि' ति च वैयाकरणसमयात् । 'पश्य मृगो धावति, पचति भवती' त्यादावेकतिको मुख्यविशेष्यतया भाष्यसिद्धैकवाक्यतोपपादनीया । क्रियाभेदे न स्यादिवि । प्रत्येकं कारकस्य पृथक्तत्तक्रियाऽन्वयादेकक्रियाऽन्वयित्वाऽभावाद्वाक्यभेद एव स्यात् , नस्वेकवाक्यत्वम् । तथा । सति विवक्षिताऽर्थाऽप्रतिपत्तेश्च नानाकारकघटितवाक्यप्रयोग एवोच्छिन्न: स्थादिति मावः ।