________________
भद्रङ्करोदयाख्यविवृतिसहिता
किञ्च यदि समुदायरूपा क्रिया न स्यात्तदा करणादीनां करणादिभावोऽपि न स्यात् , अवयबक्रियायां सर्वेषां कर्तृत्वात् । उक्तंच
" स्वव्यापारेषु कर्तृत्वं सर्वत्रैवाऽस्ति कारके । व्यापारभेदाऽपेक्षायां करणत्वादिसम्भवः ॥ १॥ इति ।
एवं चैकवाक्यतानिमित्तः करणादिव्यवहारः । क्रियाभेदे सति वाक्यभेदेन स न स्यात् । तस्मादवयवक्रिया समुदायक्रिया चेति द्वयमङ्गीकार्यम् । ॥ इति कारकपरीक्षा महोपाध्यायश्रीपशुपतिकृता ।
भद्रकरोदया ननु " देवदत्तः काष्ठैः स्थाल्यां पचती” त्यादौ यत्र क्रियापदं श्रयते तत्र तक्रियायामेव सर्वकारकाणामन्वयः इति न वाक्योच्छेदः, न वा विवक्षिताऽऽप्रतिपत्तिनीऽपि वाक्यभेदः । यत्र चाऽध्याहारप्रसङ्गस्तत्र तत्तत्कारकगतक्रियावाचकपदाध्याहार एवाऽस्तु, विनिगमनाविरहादित्या. शङ्कायामाह-किञ्चति । समुदायरूपा क्रियेति । कारकसमुदायाऽन्वयिनी मुख्या क्रियेत्यर्थः । तस्मादिति । अवयवक्रियां विनोक्तरीत्या प्रत्येकं कारक. त्वानुपपत्तेः समुदायक्रियां विनोक्तरीत्या करणवाद्यनुपपत्तेश्चेत्यर्थः । इति कारकपरीक्षायां तपोगच्छाऽधिपतिशासनसम्राटकदम्बगिरितालध्वज
राणकपुरकापरडाधनेकतीर्थोद्धारकाचार्यवर्यविजयश्रीनेमिसूरीश्वर-- पट्टालङ्कारसमयज्ञशान्तमूाचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्ट