________________
भद्रङ्करोदयाख्यविवृतिसहिता
१४३
१४३
साध्यं च साधनमपेक्षत इति साध्यक्रिया साधनमपेक्षत इत्यस्ति साध्यस्य साधनाऽऽकाङ्क्षाकृतः सम्बन्ध इति साक्षात् क्रियायाः कारकाणां सम्बन्धो न परस्परम् । प्रत्यात्मिकस्तु सम्बन्धो मिथः कारकाणां क्रियाकृतो न स्वतः । यथोक्तम्- 'प्रत्यात्मिकस्तु सम्बन्धः कारकाणां क्रियाकृत' इत्यादि । तत्र क्रियारहिते वाक्ये सम्बन्धाऽघटनाद् युक्तः क्रियाऽध्याहारव्यवहारः ।
किञ्चाऽधिकाऽपि युक्तिरस्ति । यथा- यत् क्रियारहितं वाक्यं तदनेकप्रकारक्रियापेक्षत्वात् सन्दिग्धार्थम् । यथा-वृक्ष' इत्युक्ते न ज्ञायते दृश्यते उच्छिद्यते वेत्यनेकक्रियापरिप्लुतत्वात् सन्दिग्धार्थता । ततो युक्तः क्रियाऽध्याहारः ।
किंच युक्त्यन्तरमिदम्-यथा यदक्रियापदं वाक्यं तत्राऽध्या. हारः कार्यः, असम्पूर्णत्वात् । तथाहि-क्रियारहितानि स्याद्यन्तानि पदानि साधनानि साध्यमपेक्षन्ते । यच्चाऽपेक्ष्यते, तेन रहितमसम्पूर्ण वाक्यम् । न चाऽसम्पूर्णेनाऽभिमतार्थप्रतिपत्तिः शक्यते कर्तुमिति । तदुक्तम्
भद्रङ्करोदया सम्बन्धमानम् । यदुक्तम्-'एकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते' इति । सम्बन्धिनि चैवाऽन्वयबोधार्थमाकाङ्क्षा । एवञ्च यत्राऽऽ. काङ्क्षा नास्ति तत्र सम्बन्धोऽपि नास्ति । ननु राज्ञः पुरुष इत्यादी पुरुषेणैवाऽऽकाङ्क्षापूत्ते ने तत्र मन्त्र्याद्याकाङ्क्षा । न च तावता तत्र राज्ञः सम्बन्धो नास्तीति वक्तुं साम्प्रतमिति चेत् । उपात्तपदार्थेषु यत्र नाऽऽकाङ्क्षा तत्र न सम्बन्ध इत्याशयात् ।