________________
कारकपरीक्षा
-
इति समुदायपरीक्षा ॥
इदानीमन्यद् विचार्यते-यत्र क्रियापदं न श्रूयते तत्र यत्क्रियारहितं वाक्यमुच्चार्यते तदसम्बद्धम् , ततश्च क्रियापदाऽध्याहारः कार्यः । ननु किमिति क्रियारहितं वाक्यमसम्बद्धम् ? यावता 'पदसमुदायो हि वाक्यम् ' । तत्राऽमीषां पदानां विशेषणविशेष्यभावलक्षण एव सम्बन्धोऽस्तीति किमिति असम्बद्धः स्यात् ? । यथा 'राजपुरुषः । सत्यम् । क्रियारहितानि पदानि साधनाऽभिधायीनि । सिद्धं च साधनं भवति । न च सिद्धं सिद्धमाकाङ्क्षति, समत्त्वात् । तस्मादाकाङ्क्षाया अभावादसम्बन्धः ।
भद्रङ्करोदया कारकाणां क्रिययाऽन्वये क्रियाया अपि कारकैः स इत्येवंरीत्या यथाश्रुतं न दुष्यति । तथापि पूर्वाधस्वारस्यात्कारकाणां क्रिययैव साक्षाद् योग इत्यर्थस्यैव तात्पर्य विषयत्वं गम्यते । न च क्रियाया अन्वयो जिज्ञासित इति यथाश्रुतेऽनपेक्षिताऽभिधानत्वापत्तिश्चेति ध्येयम् । एवं च कारकभेदास्त्रियाभेदस्वीकारे कारकान्तराऽसम्भवः कारकाणां मिथः सम्बन्धाऽसम्भवश्रेति क्रियेक्यमवश्यमेष्टव्यम् । सा चोपात्ता क्रियकेन कृतेतीतरेषामकारकरवं मा प्रसाक्षीदिति स्वगतक्रियायाः कारकत्वे निमित्तत्वमेष्टव्यम् । तत. भोपात्तक्रियाऽपेक्षया करणादिव्यपदेश इति निर्गलितोऽर्थः ।।
सिद्धं चेत्यादि । यद्धि न सिद्धं किन्तु साध्यमेव, तत्स्वयम. लभात्मलाभं न परसाधनयोग्यम् । यदुक्तम्-'नहि स्वयमसिद्धःपरान् साधयितुं समर्थ' इति भावः । असम्बन्ध इति । भाकाङ्क्षया हि