________________
भद्रङ्करोदाख्यविवृतिसहिता
१४,
यद्येवमपादानसम्प्रदानयोः कारकत्वं न स्यात् , अवय-- वक्रियाऽभावात् । सत्यम् , तयोरपि स्वगतक्रिया कारकत्वनिमित्त विद्यत एवेति । “ग्रामादागच्छति"-अवतिष्ठमानो ग्रामोऽपायं= विश्लेषं करोति, अवस्थानमपादानस्य स्वगतक्रिया कारकत्वे निमित्त प्रधानक्रियायाः । संप्रदानमपि प्रदीयमानवस्तुनः प्रेरणाऽनुमननाऽनिराकरणैः प्रधानक्रियां करोति, प्रेरणादि च सम्प्रदानस्य स्वगतक्रिया कारकत्वे निमित्तमिति । यस्य चाऽवयवक्रिया नास्ति न तत्कारकम् ।
ननु किमिति प्रतिकारक क्रियाभेदात्प्रत्येकं कारकत्वमिष्यते ?. यावता उपात्तक्रियाऽपेक्षयैव प्रत्येकं कारकत्वं भविष्यति । नैवम् । उपात्ता ह्येभिः क्रिया एकैव । सा चैकेन कारकेण कृतेतीतरेषामकारकत्वं स्यात् । कारकभेदात्पाकक्रियाभेद इति चेत् । एवं तर्हि सर्वेषां साक्षात्पाकक्रियासम्बन्धात् कर्तृत्वं स्यात् । ततश्च कर्तृबहुत्वाद्बहुवचनं स्यात् , काष्ठस्थालीदेवदत्ताः पचन्तीति प्रयोगः स्यात् । उत्सन्ना कारकान्तरव्यवस्था, उपात्तक्रियासम्बन्धेन सर्वेषां कर्तृत्वात् ।
किञ्च य एव एषामेकक्रियासम्बन्धस्तत्कृत एव तेषां परस्परसम्बन्धः । उक्तञ्च
'प्रत्यात्मिकस्तु सम्बन्धः कारकाणां क्रियाकृतः । क्रियायाः कारकैरेव साक्षाद् योगोऽभिधीयते' ॥ १॥
भद्रङ्करोदया . . . प्रत्यात्मिक इति । प्रतिस्वमित्यर्थः । मिथ इति शेषः । कारकैरेवेति । कारकाणां क्रिययैव न तु मिथः साक्षाद्योग इत्यर्थः । यद्यपि
19