SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ कास्कपरीक्षा तेषामपि कर्तृत्वम् । यथा-' ज्वलन्ति काष्ठानि' । तथा काष्ठादीनि स्वव्यापारं कुर्वन्त्येव देवदत्तस्य व्यापारमुपकुर्वन्ति । स्वव्यापारयुक्तान्येव प्रधानन्यापारेण पाकेन सम्बध्यन्ते । यतः स्वव्यापारसम्बन्धः पाकसम्बन्धनिमित्त तत्रेति स्वव्यापारनिबन्धनो मिथः कारकाणां न सम्बन्धः, तस्य प्रतिकारकमन्यत्वात् । तथापि प्रधानक्रियाया एकत्वात्तन्निमित्तो मिथः कारकाणां सम्बन्धः । किमत्राऽनुपपन्नम् ? । __तथा प्रधानक्रियाफलमुद्दिश्य सर्वाणि कारकाणि प्रवर्तन्त इति यदुद्दिश्य प्रवृत्ति स्तदेव तस्य फलमित्युद्देश्यतया. प्रधानक्रियाफलमेव सर्वेषां फलमिति फलभेदलक्षणो दोषो नाऽवकाशमश्नुते इति अवस्थितैव कारकव्यवस्था--- अवयवक्रिया कारकाणां प्रधानक्रियाकारकत्वे निमित्तमिति । भद्रकरोदया कियैव पाकाद्यनुकूलस्वेन प्राधान्येन विवक्ष्यते तदापि कर्तृत्वम् । तथा च-"काष्ठामि पचन्ति, स्थाली पचति, भोदनः पच्यते " इत्याचपि । प्रधानव्यापारेण पाकेनेति । प्रधानपाकक्रिययेत्यर्थः । यथाश्रुत तु न सम्यक् । पाकस्य फलत्वाद् व्यापारत्याऽभावादिति ध्येयम् । किमत्राऽनुपपन्नमिति । प्रत्येकं कारकत्वं मिथः सम्बन्धश्चैकक्रियानि मित्त उपपद्यते, न च क्रियाभेद आवश्यक इति सर्वमप्युक्तरीत्योपपयत एवेत्सर्षः । ....
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy