SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यविवृतिसहिता १३९ “ स्वव्यापारे च कर्तृत्वं सर्वत्रैवाऽस्ति कारके । व्यापारभेदाऽपेक्षायां करणत्वादिसम्भवः” ॥ १ ॥ ननु 'चैत्रः काष्ठैः स्थाल्यामोदनं पचती' त्येकैव क्रिया श्रूयते नहि क्रियान्तरम् । तत्कथं क्रियाभेदात्कारकभेद इति । . अत्रोच्यते --अत्रैव काष्ठादयः पाकमुपकुर्वते । गृहीतस्वव्यापारा एव पाकमुपकर्तुं शक्नुवन्ति न नियापाराः । न (हि) ज्वलनं विना काष्ठैः पाक उपकर्तुं शक्यते । ततो यद्यपि नाम क्रियान्तरं न श्रूयते तथापि करणादिकारकाऽनुरोधेनाऽश्रूयमाणमपि गम्यत एवेत्य-- दोषः । अश्रूयमाणक्रियाकारकत्वेनाऽप्राधान्याच्च करणादिव्यपदेशं लभते । यदा च तेषां क्रिया श्रूयते तदा श्रयमाणक्रियत्वेन प्राधान्या भद्रकरोदया करणादिकारकानुरोधेनेति । करणवाद्यात्मककारकत्वाऽन्यथाऽनुपपत्येत्यर्थः । भक्रियस्योक्तरीत्या मुख्यक्रियां प्रत्युपकारकत्वाऽसम्भवात्तदपेक्ष. कारकत्वस्याऽप्यसम्भवात् , कारकमिति महासंज्ञयाऽक्रियस्याऽकारकत्वादिति बोध्यम् । नन्वेवं स्वगतक्रियाऽपेक्षः कर्तृव्यपदेश एव सर्वेषां कारकाणां कुतो नेत्याशङ्कायामाह-अश्रूयमाणक्रियाकारकत्वेनेत्यादि । भयंभाष:-अपमाणक्रिया प्रधानमिति तन्निमित्तकारकस्य प्राधान्यम् । भभूयमप्रक्रिया न प्रधानमिति तन्निमित्तकारकस्याऽप्यप्राधान्यम् । एवञ्चाऽभूयमाणक्रियाकर्तुर. श्रमाणक्रियाकारकत्वेनाऽप्राधान्यान कर्तृव्यपदेशः । किन्तु प्रधानक्रियानिमित्तकरणादिष्यपदेश एव, प्रधानेन हि व्यपदेशा भवन्तीति न्यायादिति । श्रूयते इति । उपलक्षणमेतत् । तेन यदा करणादीनां स्वगत.
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy