SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३० कारकपरीक्षा समत्वादि ' ति । क्रियाकृतोऽपि नास्ति, क्रियाभेदात् । न च भिन्नक्रियाकारकयोमिथः सम्बन्धो दृष्टः । (न हि) 'पचन्ति पाचकाः, यजन्ति याजका ' इति पाचकयाजकयोभिन्नक्रिययोः सम्बन्धोऽस्ति । ___ अथ समुदायस्य कारकत्वमिति पक्षः कक्षीक्रियते तदा देव. दत्तादीनां प्रत्येकं कारकत्वं न स्यात् , समुदायस्य कारकत्वात् । ततश्च देवदत्तादिसमुदायः पचतीति प्रयोगो युज्यते, न तु देवदत्तः पचतीति पूर्वपक्षः । अत्रोच्यते--प्रत्येकमेव कारकत्वम् । प्रतिकारकं च क्रियाभेदः । तदुक्तं भाष्यकृता- “ प्रतिकारक क्रियाभेद " इति । देवदत्तस्य विक्लेदनादिव्यापारः, ओदनस्य विक्लित्तिः, काष्ठानां ज्वलनम् , स्थाल्या अम्भोधारणमित्येवं प्रत्येकं क्रियाभेदः । सर्वाण्यपि कारकाणि स्वव्यापारे कतृत्वमनुभूय प्रधानव्यापारे करणादिव्यपदेशमश्नुवते । राजसन्निधावमात्यानामिव प्रधानसन्निधौ तेषामप्रधानत्वात्करणादिव्यपदेशो न तु कर्तृत्वं स्वगतव्यापारे सत्यपि । यदा तु प्रधानसन्निधि ने भवति तदा स्वव्यापारे सर्वेषां प्राधान्यात्कर्तृत्वमेवाऽऽविर्भवति । यथा क्लिद्यत्योदनः, ज्वलन्ति काष्ठानि, स्थाली जलं धारयति । उक्तञ्च __ भद्रकरोदया सम्बन्धः । क्रियायां स्वेकस्यां साध्यायां तस्याः सभ्भूय साध्यत्वात्समान. प्रयोजनसद्भावाद् युद्धे योधानामिव कारकाणां तक्रियाकृते मिथ: सापे. क्षत्वात् सम्बन्ध इति । नास्तीति । कारकाणां मिथः सम्बन्ध इति शेषः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy