________________
मद्रङ्करोदयाख्यविवृतिसहिता
१३७
इदानीमन्यनिरूप्यते- देवदत्तः काष्ठः स्थाल्यां पचतीति । अथ किं देवदत्तादीनां पाकं प्रति प्रत्येकं क्रियाकारकत्वमुत समुदा-- यस्य ? । तत्र यदि प्रत्येकम् , तदैकेनैव पाकस्य कृतत्वादितरेषामनुपयोगादकारकत्वम् । अपरैरपि क्रिया जन्यत इति चेन्न । कृतस्य करणाऽसम्भवात् । अन्या क्रियत इति चेन्न । पचतीति एकैव क्रिया श्रूयते, सा च देवदत्तेनैव कृता । अन्या च न श्रूयते, या काष्ठादिभिर्विधीयेत । एवं तेषामकारकत्वमापन्नम् ।
किञ्च यदि प्रतिकारकं ( क्रिया )भेदस्तदा यावन्ति कारकाणि तावत्यः क्रियाः प्राप्नुवन्ति, तावन्ति च क्रियाफलानि ।
किश्च देवदत्तादीनां मिथः सम्बन्धो न स्यात् क्रियाभेदात् । एकक्रियाकृतो हि कारकाणां मिथः सम्बन्धः । सिद्धरूपतया तेषां (न स्वतो मिथः सम्बन्धः), समत्त्वात् । यथोक्तम्- ‘गुणानामसम्बन्धः
भद्रकरोदया प्रत्युत तादृशव्युतात्तिबलेन बौद्धोऽपि क्रियासम्बन्धोऽपेक्षित एव कारकत्वे इत्येव लभ्यते । भाष्ये सिद्धहेमशब्दानुशासनबृहद्वयादौ च बुद्धिकृतसंसर्गपूर्वकविभागमाश्रित्याऽऽपादानत्वं निवाह्य भयार्थकादियोगे अपादानत्वार्थ पृथग्योगस्य प्रत्याख्यातत्वाच्च । __क्रियाफलानीति । प्रत्येक क्रियायाः फलसद्भावात् , क्रियायाः फल. वत्त्वनियमादिति बोध्यम् । समत्त्वादिति । 'गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यादिति जैमिनिसूत्रम् । अयं भावः । सिद्धये ह्यन्याऽपेक्षा । सिद्धश्च सिद्वत्वादेव निरपेक्षः । तस्मान कारकाणां मिथ: सम्बन्धः, सिद्धस्वेन समत्त्वात् । यथा गुणानां पारायसाम्यान्मिथो न