________________
कारकपरीक्षा
साम्प्रतमन्यनिरूप्यते-(देवदत्तो न भवति २ ) कटं न करोति, असिना न च्छिनत्ति, देवाय बलिं (न ३ ) दत्ते, ग्रामान्न याति, राज्ञो नाऽयं पुरुषः, गृहे नास्ती' त्यादौ द्वितीयादिभि ने भवितव्यम् , तन्निमित्तस्य नना निषेधात् ।
अत्रोच्यते-प्राप्तिपूर्वको हि निषेधः । पूर्व प्रतिषेधविषयोपदर्शनं कर्तव्यमिति द्वितीयादयो भवन्त्येव । पश्चान्ना सम्बन्धः । न ह्यदर्शितविषयः प्रतिषेधुं ४ शक्यते ।
भद्रकरोदया
- तलिमित्तस्येति । क्रियाया इत्यर्थः । क्रियाजनकं कारकमिति कियैव हि कारकत्वनिमित्तमिति क्रियानिषेधे तज्जनकस्वरूपकारकत्वाऽसम्भव इति भावः । प्रतिषेधुं शक्यत, इति । भयंभावः देवदत्त देः क्रियासम्बन्धाऽभावे क्रियानिषेधो व्यर्थः, निषेध्याऽभावात् । नन्वेवं देवदत्तादेः प्राक्रियासम्बन्धाऽभ्युपगमे पश्चात्तनिषेधोऽपि व्यर्थः ।. यदुक्तम्-"भुक्तवन्तं प्रति मा भुत्तथा इति ब्रूयात् , किं तेन कृतं स्यादि" ति चेत् । एवं तर्हि बुढ्यापादितक्रियासम्बन्ध एव निषेधविषयस्तादृशवाक्यव्यवहाराऽन्यथाऽनुपत्त्येशस्थलेषु बोध्यः । वक्ता ह्यादौ देवदत्त दीन बुद्ध्या क्रियया सम्बध्नाति पश्चाभिषेधति । बौद्धः क्रियासम्बन्धो न कारकत्वायाऽलम् , करोतीति कारकमिति व्युत्पत्तेरित्यसाम्प्रतम् । बौद्धार्थमादाय शशशृङ्गादिपदेषु नामववबौद्ध क्रियासम्बन्धमादाय कारकत्वस्यापर्यनुयोज्यत्वात् ।
२-३ मू० प्र० नास्ति ।
४ ' उपलब्धुम् ' मू. प्र. ।
।