________________
भद्रङ्करोदयाख्यविवृतिसहिता
नाऽपि ।
तर्हि राजपुरुषावपि स्वत एव सम्बद्धौ भविष्यतः । ततः किं सम्बन्धेअसम्बन्ध एव सम्बन्धो राजपुरुषौ सम्बन्धिनाविति ( चेत् ५ ) । एवं सत्यतिप्रसङ्गः । अन्वयी येनाऽपि स सम्बन्धो नाऽन्यः । ( इति ६ विचारिता षष्ठी ) ।
अथ १ सप्तमी निरूप्यते- “ क्रियाऽऽश्रयस्याऽऽघासेऽधिकरणम् " (सि० हे०)। क्रियाया आश्रयः कती कर्म च । तस्य य आधारस्तदधिकरणम् ।
१३५
""
कर्तृकर्मव्यवहितामसाक्षाद् धारयत्क्रियाम् ।
उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् " ॥ १ ॥ तत्पुनस्त्रिविधम् । औपश्लेषिकं यथा -कटे आस्ते । वैषयिकं यथा-खे शकुनयः । अभिव्यापकं - तिलेषु तैलम् ।
भद्रकरोदया
एवं सतीति । यद्यसम्बन्ध एव सम्बन्धः, तावतैव च राजपुरुषौ सम्बन्धिनावित्यभ्युपेयते, तदाऽसम्बन्धाऽविशेषाज्जगतो राजपुरुषत्वापत्तिः । न च तथा । तस्मात्सम्बन्धवशादेव कोऽपि सम्बन्धी, स च सम्बन्धः स्वरूप : एव सम्बद्धो न सम्बन्धान्तरमपेक्षते, तथास्वाभाव्यादित्यङ्गीकार्यम् । अन्यथाऽनवस्थापत्तेः । न चाऽसम्बन्धाऽविशेषेऽपि यत्राऽन्वयः स सम्बन्धीति न कोऽप्यतिप्रसङ्ग इति वाच्यम् । अन्वयो हि न सम्बन्धं विना, अन्यथा पूर्वोक्तदोषतादवस्थ्यात् । नन्वस्तु कथमप्यन्वन्वय इति सम्बन्धोऽसिद्ध एवेति चेत् । येनाऽपि कृत्वाऽन्वयी, स सम्बन्धो नान्य इति ।
१ एतदारभ्य समासिं यावद्ग्रन्थः क० नास्ति ।
·