________________
१३४
कारकपरीक्षा
मानया षष्ठ्या प्रत्यायितत्वाद् द्वितीयसम्बन्धिनो नाऽर्हति भवितुम् ।
यत्तूक्तम्- (तस्मात्स १ नास्तीत्यनुमीयत) इति । तत्रोच्यते-राज्ञः पुरुष इत्युक्ते ( सम्बद्धत्वं २ राजपुरुषयोर्गम्यते)। सम्बद्धत्वं च सम्बन्धं विना नोपपद्यत इति धर्माऽ ३ नुमेयः सम्बन्धः )।
( ननु १) यदि २ सम्बन्धेन राजपुरुषौ सम्बद्धौ तदा सम्बन्धः केन ताभ्यां सम्बद्धः ? सम्बन्धान्तरेण चेत् , सोऽपि केनाऽ ३ पि सम्बन्धान्तरेणेत्यनवस्था । अथ सम्बन्धः स्वत एव सम्बद्धः । एवं
भद्रकरोदया
नाहतीति । उक्तार्थानामप्रयोग इतिन्यायादिति बोध्यम् । एवञ्च . 'सदभिधानार्थ पुरुषशब्दादपरया षष्ठ्या भवितव्यमि' त्यापत्तिनिरस्तेति ध्येवम् ।
गम्यत इति । शब्दशक्तिस्वाभाब्यात्सम्बद्धतयैव ततस्तयोः प्रतीतेः । भन्यथा राजकीयपुरुषादिवोधेच्छया तादृशवाक्यानामसम्भव एवाऽऽपयेतेति बोध्यम् । धर्मेति । सम्बद्धत्वधर्मेत्यर्थः । एवञ्च सम्बन्धो नास्तीति निराकृतं वेदितव्यम् । नहि यदुलभ्यते तदेवाऽस्ति, अपि स्वनुमित्यादि.. विषयोऽपीति बोध्यम् ।
, 'सम्बन्धो नास्त्येषाऽप्रतीतेः' मू० प्र० । २ 'सम्बन्धोराजपुरुषवद्गम्यते' मू० प्र० । ३ 'कर्मा' मू० प्र०। १-५-६ () एतदन्तर्गतः पाठः मू० प्र० नास्ति । २ ग० नास्ति । ३ 'न स' क० । ४ 'न्धः' क० ।