SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदाख्यविवृतिसहिता किंच ( ' राज्ञः १ पुरुष ' इत्यत्र राजा पुरुषश्च द्वयमुपलभ्यते । तत्र न राजा सम्बन्धो नाऽपि पुरुषः, तयोः प्रातिपदिकार्थत्वात् । तयतिरेकी च सम्बन्धः । तस्मात्स नास्तीत्यनुमीयते । ___ अत्रोच्यते :–सम्बन्धः सवात्मना राजनि पुरुषे चाऽस्तीत्यङ्गीकार्यम् । द्विष्ठोऽप्यसावेक एव । य एव राज्ञि स एव पुरुषे नाऽन्यः । तेनैकेन द्वावपि सम्बद्धौ, एकत्वाच्च स एकस्मादेव सम्बन्धिन उत्पद्य भद्रकरोदया . वृत्तिता निराबाधा तथापि न सम्बन्धांशेऽपि तु सम्बन्धे षष्ठीति समुदायात्वष्यवाऽविकलसम्बन्धार्थलाभसम्भव इति समुदायादेव पडीसम्भव इति बोध्यम् । उपलभ्यत इति । प्रत्यक्षत इतिशेषः । तव्यतिरेकी प्रातिपदिकार्थव्यतिरेकी । चो हेतौ । यतस्तव्यतिरेकी सम्बन्धोऽतस्तयोः प्रातिकार्थस्वाम राजा नापि पुरुषः समन्ध इत्यन्धयः । तव्यतिरेकी च सम्बन्ध इत्यनन्तरं 'स तु नोपलभ्यते' इति शेषः । अनुमीयते इति । इह हि यद्भवति तदुपलभ्यते राजपुरुषादिरिवेति हृदयम् । अस्तीति । सम्बन्धस्य तथास्वाभाज्यादिति बोध्यम् । एक एवेति । प्रत्येकमुभयादौ वर्तमानद्वित्वादिवदिति ध्येयम् । सम्बद्धाविति । एक्स " राजपुरुषात्रसम्बन्दावेब स्यातामि' त्यापत्ते नाऽवसर इति भावः । १ () एतदन्तर्गत: 'राज' इत्यारभ्य ‘अनुमेयः सम्पन्ध' इत्यन्तो ग्रन्थः क. नास्ति । 18
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy