SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ कारकपरीक्षा शब्दादुत्पन्नया षष्ठ्या पुरुषसम्बन्धस्याऽनभिधानात्तदभिधानार्थ पुरुषशब्दादपरया षष्ठया भवितव्यम् ।। अथांऽशेन २, तदा राजनि न सम्बन्धोऽस्ति नाऽपि पुरुषे । किं तर्हि ?, तदंश ३ सम्बन्धस्तिष्ठति । (इति ४) न राजन्शब्दान्नाऽ ५पि पुरुषशब्दात्षष्ठी भवितुमर्हति ६ । किं तर्हि, राजपुरुषसमुदाया देव । भद्रकरोदया । भवति । न हि गृहे स्थितो देवदत्तो बहिर्भवति । एवञ्च यः सम्बन्धो राजनि न स पुरुषे यश्च पुरुषे स न राजनीति द्वयोःपृथगेव स्वस्व. सम्बन्ध इति एकस्य सम्बन्धस्योभयोरवर्तनादन्योन्यं सम्बन्धाऽभावाद् द्वा. वसम्बद्वौ । एकस्य सम्बन्धो यद्यपरत्र भवति तदा हि सम्बद्धत्वव्य. वहार इत्याशयः । भवतु वा स्वस्वसम्बन्धेन राजा पुरुषश्च सम्बद्धः, उभी एकेन सम्बन्धेन सम्बद्धाविति न स्यादिति राजसम्बन्धवान् पुरुष इति राजपुरुषपदान प्रतीयेतेति बोध्यम् । भवितव्यमिति । अत्रेदं वि. चारणीयम्-सम्बन्धः सर्वात्मना वर्तत इति पक्षे सम्बन्धाऽभिधानार्थमु. भयत्र पठ्यामप्युक्तरीत्या तसत्षष्ठीवाच्यसम्बन्धस्य तस्मिंस्तस्मिन्नेकस्मिझेव वर्तनादुभयोः परस्परमेकसम्बन्धाऽभावाद् 'राजपुरुषावसम्बद्धौ स्यातामि' स्युक्तापत्तिताइवस्थ्यमिति भक्षितेऽपि लशुने न शान्तो व्याधिरित्युभयत्र पच्या मापादनमबद्ध मिति । नापि पुरुषे इति । अंशेन वृत्तौ न वृत्तिता सम्बन्धस्येत्यभिमानः । समुदायादेवेति । यद्यपि भूतलादी घटादाविवाऽशेन वृत्तावपि १ 'भाव्यम् । क०। २ 'ते' क०। ३ 'तदंशेनांऽशसम्बन्धः 'क० । 'तदङ्गसम्बन्धस्तिष्ठति' ग. । ४ क. नास्ति । ५ 'दिव' क० । ६ ‘भवति • । ७ 'यात् ' ग• |
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy