________________
भद्रङ्करोदयाख्यविवृतिसहिता
१३१
'परार्थे स्वार्थनिक्षेपादप्रधानं विशेषणम् । विशेष्यत्वात्प्रधानं स्यात्स्वार्थस्यैव प्रकाशनात् ॥ १॥ भेद्यभेदकयोः श्लिष्टःसम्बन्धोऽन्योन्यमिप्यते । द्विष्ठो यद्यपि सम्बन्धः षष्ठ्युत्पत्तिस्तु भेदकात् ' ॥ २ ॥
ननु यदि सम्बन्धो द्विष्ठस्तदाऽसौ किं सर्वात्मना वर्तते उतांsऽशेन ? । (तत्र २) यदि सर्वात्मनेति ३ पक्षस्तदा राजनि यः सम्बन्धः सर्वात्मना स पुरुषे नास्ति, पुरुषे यः स्थितः ४ स राजनि नास्ति ( इति १) राजपुरुषावसम्बद्धौ २ स्याताम् । ( ततश्च ३) राजन्
भद्रङ्करोदया परार्थ इत्यादि । पर,र्थे विशेष्यपदार्थे स्वार्थस्य निक्षेपात्तदाश्रितस्वेन निवेशाद् विशेषणमप्रधानम् । लोके हि पराश्रित एवाप्रधानं कथ्यते । एवं च परार्थत्वमेवाऽप्राधान्यमिति भावः । यच्च स्वार्थमेव प्रकाशयति नतु परार्थे निविशते तद्विशेष्यत्वात्परार्थे स्वार्थाऽनिक्षेपास्प्रधानमित्यर्थः । एवञ्च स्वार्थमात्रप्रकाशकत्वं प्राधान्यमिति भावः । भेद्यभेदक्योरित्यादि । भेषभेदकयो विशेष्यविशेषणयोरन्योन्यं सम्बन्धः । यथा राज्ञः पुरुषेण तथा पुरुषस्य राज्ञा । अत एव स एक एव सम्बन्ध उभयोः श्लिष्टः स्थितः । तदेवं यद्यपि सम्बन्धो द्विष्ठोऽस्ति तथापि षष्ठ्युत्पत्तिर्भेदकानतु भेयादित्यर्थः । ___ असम्बद्धौ स्यातामिति । यो ोकत्र सर्वात्मना भवति सोऽन्चन न १ 'उभयाङ्गेन वा' क० । २ ग० जास्ति । ३ ‘ना वर्चले। क ४ 'तिष्ठति' क० । १ क० नास्ति । २ ‘म्बन्धावेव' क० | ३ क० ग. नास्ति ।