________________
कारकपरीक्षा
यमाणाऽपि क्रिया हेतुभूता सम्बन्धदर्शनेनाऽनुमेया। क्वचित्पुनः श्रूयमाणाया एकक्रियायाः सम्बन्धो विवक्ष्यते । यथा-' माषाणामश्नाति ' । तदेतदशनं १ तन्माषाणां नाऽन्येषामित्यर्थो विवक्षितः । तदुक्तम्-----
" सम्बन्धः २ कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते" ॥ १ ॥
तत्राऽ ३ स्येदंभावलक्षणरूप एक एव सम्बन्धः । ( यद्यपि ४ स्वस्वामिजन्यजनकभावे ) त्यादयो बहवः सम्बन्धाः पुरुषायुषेणाऽपि गणयितुं न शक्यन्ते । (तथापि ५) सर्वत्र सम्बन्धिभेद एव सम्बन्धस्य भेदकोऽत्रेष्टव्यः । परमार्थतस्तु सम्बन्ध एक एव, अस्येदंभावस्य सर्वत्र विद्यमानत्वात् । स नास्त्येव हि सम्बन्धो योऽस्येदंरूपमतिकामति ।)
स चाऽयं सम्बन्धः सम्बन्धिनिष्ठत्वाद् द्विष्ठः । तत्र यद्यपि (स ७) द्विष्ठस्तथापि विशेषणादेव षष्ठी न विशेप्यात् । (तदुक्तम् -- 'यथा शेषोऽयं प्रकृतादन्यमाचष्टे तथा परार्थमपि । तेन विशेषणस्य परार्थत्वात्तत एव षष्ठी' ति । तन्त्रेणाऽऽवृत्त्या वा शेषशब्दद्वयं द्रष्टव्यम् । शेषे सम्बन्धे शेषे परार्थे विशेषणे षष्ठी। तदुक्तम्--- १ ‘शनतन्मा' मू. प्र. । २ ‘सम्बन्धकारकेऽन्योन्यः' मू. प्र. । ३ 'तत्र यद्यद्यस्ये' मू. प्र० । ४-५ () एतदन्तर्गतः पाठो मू. प्र. नास्ति । ६ 'तस्म दस्येदभावरूप एव सम्बन्धः सम्बन्धिद्वयनिष्ठः' इति क. पाठः । ७ 'स' इति ग० नास्ति । ८ 'तदुक्तं यथे। त्यारभ्य 'षष्ठ्युत्पत्तिस्तु भेदकादि । त्यन्तो प्रन्थो ग० नास्ति ।