SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ भद्रतरोदयाख्यविवृतिसहिता न च कमीदयोऽन्वधिनः, तेषामन्य १ विभक्त्यर्थे व्यभिचारात् । तथाहि २–' कटेने 'त्यत्र कर्मत्वं नास्ति । (कटायेत्यत्र ३ करणत्वं नास्ति ) इत्यादि योज्यम् । तस्मात्कादिभिः प्रातिपदिकार्थोऽतिरेकीक्रियते । तथा सम्बन्धेनाऽपि (प्रातिपदि ४ कार्थोऽतिरेकी ) क्रियते । (तथाहि ५-अस्येदंभावलक्षणः सम्बन्धः । न चाऽसौ सर्वविभक्त्य-- थाऽव्यभिचारीति नासौ प्रातिपदिकार्थ इति । अतस्तेनाऽपि प्रातिपदिकार्थोऽतिरिच्यते । ) यद्यपि सम्बन्धेन कर्मादिभिश्च (द्वाभ्यां ६ ) प्रातिपदिकार्थोऽतिरिच्यते, तथापि कर्मादीनां प्राक्प्रवचना " त्तदपेक्षया तदन्यः प्रातिपदिकार्थव्यतिरेको गृह्यमाणः पारिशेष्यात्सबन्ध एव (विज्ञायते ८ इति ) । (अत ९ आह-कादिभ्यो योऽन्य ' इत्यादि । ___ एतेन शेषशब्देनेह सम्बन्धो ग्रहीतव्यः । (तत १० ) एतदुक्तं भवति-सम्बन्धे षष्ठीति । स च सम्बन्धः सर्वत्र क्रियाकारक( पूर्वको ११) जन्यजनकभावादिः । तथाहि-' राज्ञः पुरुष' इत्यत्र भरणकृतो राजपुरुषयोःसम्बन्धः । 'वृक्षस्य शाखे' ति। अवस्थानक्रियाकृतो वृक्षशाखयोः सम्बन्धः । विभक्तिपुरुषं (प्रति १२ ) राजनेनाऽसौ राजोच्यते । वृक्षे १३ तिष्ठति शाखेति तस्य सा। तदेवं सर्वत्र सम्बन्धेऽथ१ ‘षामन्वयिनोऽन्यत्र ' क० । २ 'यथाहि । ग० । ३-४-५-६ () एतदन्तर्गतः पाठो ग. नास्ति । ७ 'कर्मत्वात् ' क० । ८ क. नास्ति । ९ 'अत आहे ' त्यारम्भ ‘अतिक्रामती ' त्यन्तो ग्रन्थो ग० नास्ति । १०-११-१२ ( एतदन्तर्गतः पाठोमूलपतौ न.स्ति, औचित्यान्निवेशितः । १३ वृक्षे तिष्ठति शाखा स तावत्तत्रेति तस्य सा, शाखास्तत्र वृक्षे तिष्ठन्ति, तस्य वृक्षस्य ताः शाखा इत्यर्थः इति मू. प्र. पाटः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy