________________
૧૨૮
कारकपरीक्षा
अत्रोच्यते-उदासीनमित्यस्य कोऽर्थः ? । आगमनक्रियायाः की न भवति गच्छन्तं देवदत्तं नाऽनुगच्छति, आगमय ति=निमित्त पुनर्भवत्यपायस्येति । तथाहि-अपायो विश्लेषः, स च द्वाभ्यां साध्यते । तत्र यदैकः क्रियायां प्रवर्तते तदा सिद्धयति । अ ? न्यस्तूदासीनतयाऽपायसिद्धौ निमित्तमिति निमित्तभाव एवोदासीनशब्देन दर्शित इति विस्तरेण निरूपिता पञ्चमी ) ॥ ५ ॥
(षष्ठी ३ सम्प्रति निरूप्यते । का पुनरियं षष्ठी?, 'ङस् ओस् आमि' ति । तस्याः पुनरेतल्लक्षणम् )- 'षष्ठी शेषे' (पा०) इति । कर्मदिभ्यो योऽन्यः प्रातिपदिकार्थव्यतिरेकी ४ स्वस्वामि ५ भावादिसम्बन्धः ( स ६) शेषः । प्रातिपदिकार्थो येन व्यतिरिच्यते-अतिरिक्ती भवति स प्रातिपदिकार्थव्यतिरेकः । कर्मादिकारकैः प्रातिपदिकार्थोऽतिरेकीक्रियते ७ । कटं ८ करोतीत्यादौ कर्मत्वादेः प्रातिपदिका. थीदन्यत्वात् । स ९ हि फलमूल( पलाश १० )स्कन्धादिरूपोऽ11. नुपात्तसङ्ख्याकर्मादिविशेषः सर्वविभक्त्यर्थाऽ १२ व्यभिचारी अन्वयी । १ 'म इ' मू. प्र. । २ 'तदेवो' मू. प्र.। ३ () एतदन्तर्गतपाठस्थाने 'अथ षष्ठी' त्येतावन्मानं ग०पाठः । ४ 'कः' क० । ५ 'त्वादि' ग० । ६ क० नास्ति । ७ क्रियते इत्यतोऽग्रे ननु ‘कर्मादयोऽपि प्रातिपदिकार्थव्यतिरेकिण' इत्यधिको ग० पाठः । ८ 'घट' ग०। ९ 'प्रातिपदिकार्थो ह्यन्वयी फल' इति कः। १० ग० नास्ति । ११ पोऽर्थोऽ' क० । १२ थीऽन्वयी व्य' क० ।
-
-
-
-