________________
१२६
कारकपरीक्षा
निमित्तभावः । यथा (पाके २ ) ज्वलनादिद्वारेण ३ काष्ठादीनां निमित्तमावः । तथेहाऽपि ग्रामोऽवतिष्ठते । अवतिष्ठमान ( एव ४ ग्रामो) देवदत्ता ५ गमनं प्रति निमित्ततां ६ प्रतिपद्यते (इति भवति " कारकम् ।) “ यदि ८ ग्रामोऽप्यागच्छेत्तदाऽपा९ यो न निष्प १० येत" इति" ब्रुवता न्यासकारेणाऽऽपि १२ तस्या १३ ऽनागमानमेव देवदताऽऽगमनं १४ प्रति निमित्तमिति दर्शितम् । कस्यचित्कार्यस्य किय
- भद्रङ्करोदया दर्शितमिति । एवञ्चौदासीन्यं न निापारस्वम् , किन्तु विश्लेष. जनकक्रियानाश्रयत्वमेव । तच्च ग्रामादेरक्षतं स्वगताऽवस्थानादिक्रियाद्वारोतरीत्या कारकत्याचेत्यपादानत्वं सूपपादम् । नन्चौदासीन्यात्साध्याऽऽगमनादिक्रियायां प्रोमादेः सामग्रीत्वं नेव्यते एवेति चेन्न । तदाह-कस्यचिदित्यादि । भयंभावः-उत्तरदेशसंयोगाद्यात्मकमागमनादिकं पूर्वदेशादितोऽपायं विनाऽनुपपमम् । अपायश्च निराश्रयो न सम्भवतीति ग्रामादिरपेक्षितः । एवनाऽऽगमनादौ तदनाश्रयस्वादुदासीनोऽपि ग्रामादिः स्वाऽवस्थितिक्रिययाऽ. पावं साधयबागमनमुपकरोतीति सामग्रीज्यते । सैव चाऽपादानमित्युच्यत इति । अतएव चोदासीनस्याऽपादानत्वे कादिभिन्नस्य जगतोऽप्यपादान
२-७ () एतदन्तर्गतः पाठः ग० नास्ति । ३ 'ज्वलनद्वारा काष्ठानां मिमित्तता' ग. पाठः । ४ () एतदन्तर्गतः पाठः क० नास्ति । ५ ‘त आ' क० । ६ 'निमित्तभावमुत्पादयति' इति क० । ७ यदीत्यतः पूर्व तथा चोक्तंन्यासकृता इति क. ग. अधिकः पाठः । ९ च्छेदषा' क० । २० 'पा' क० । ११ ‘इति ध्रुवं ध्रुपता' क० । १२ ‘ण न्यासस्या' क. । १३ ' स्याग ' क. । १४ 'गभननिमित्त ' क० ।