________________
भद्रङ्करोदाख्यविवृतिसहिता
१२५
ननु यदि क्रियायामुदासीनं ध्रुवं । न( २ तर्हि) कारकम् । कारक हि घटनात्मकं( भवति ३ ।) न चो ४ दासीनं घटते । (घटते ५) चेत्कथमुदासीनम् ? । तस्मात्कारकाऽधिकारे कारकस्याऽपादानसंज्ञा विधीयमाना ध्रुवस्या ६ऽकारकत्वान्न ७ सिद्धयति । ( यथोक्तम् ८
" ध्रुवं न कारकं मन्ये नोपकारगतो यतः ।
अपायाऽऽधारभूतोऽसौ क्रियेति च न कथ्यते")। उच्यते -- सर्वकारकाणां स्वगतक्रियाद्वारेणैव प्रधानक्रियाया
भद्रकरोदया । क्रियायामुदासीनमिति । क्रियासिद्धावुदासीनमित्यर्थः । निया. पारत्वमौदासीन्यमित्यभिमानः । घटनात्मकमिति । सन्यापार इत्यर्थः । कथमिति । काक्वा नोदासीनमित्यर्थः । नियापारस्वाऽभावादिति भावः । तस्मादिति । निापारवादित्यर्थः । नोपकारगत इति । क्रियासिद्धी नोपकरोति-न सव्यापार इत्यर्थः । ननु तर्हि कीदृशं ध्रुवमित्याकाक्षायामाह-अपायेत्यादि । अपायाऽऽधारतामात्रं ध्रुवस्येत्यर्थः । कथ्यते इति । अपायाऽऽधारता च क्रियेत्येवं न कथ्यते ध्यपदिश्यते । घटनं हि क्रियेति प्राक्सूचितत्वात् । एवं च निर्व्यापारवान ध्रुवं कारकमिस्याशयः ।
१ 'तद्धृवं' क०। २ कः नास्ति । ४ ‘च तदु' ग०। ५ () क० नास्ति । ६ ‘स्य का' क० । ७ 'वं न सिद्धयति । क० । 'स्वान्नापादानत्वम् ' ग० । ३-८ () एतदन्तर्गतः पाठो ग० नास्ति । ९ 'सत्यम् । ग• पाठः ।
10